Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 12

58 Mantra
34/12
Devata- अग्निर्देवता Rishi- हिरण्यस्तूप आङ्गिरस ऋषिः Chhand- विराड् जगती Swara- निषादः
Mantra with Swara
त्वम॑ग्ने प्रथ॒मोऽअङ्गि॑रा॒ऽऋषि॑र्दे॒वो दे॒वाना॑मभवः शि॒वः सखा॑।तव॑ व्र॒ते क॒वयो॑ विद्म॒नाप॒सोऽजा॑यन्त म॒रुतो॒ भ्राज॑दृष्टयः॥१२॥

त्वम्। अ॒ग्ने॒। प्र॒थ॒मः। अङ्गि॑राः। ऋषिः॑। दे॒वः। दे॒वाना॑म्। अ॒भ॒वः॒। शि॒वः। सखा॑ ॥ तव॑। व्र॒ते। क॒वयः॑। वि॒द्म॒नाप॑स॒ इति॑ विद्म॒नाऽअ॑पसः। अजा॑यन्त। म॒रुतः॑। भ्राज॑दृष्टय॒ इति॒ भ्राज॑त्ऽऋष्टयः ॥१२ ॥

Mantra without Swara
त्वमग्ने प्रथमोऽअङ्गिराऽऋषिर्देवो देवानामभवः शिवः सखा । तव व्रते कवयो विद्मनापसो जायन्त मरुतो भ्राजदृष्टयः ॥

त्वम्। अग्ने। प्रथमः। अङ्गिराः। ऋषिः। देवः। देवानाम्। अभवः। शिवः। सखा॥ तव। व्रते। कवयः। विद्मनापस इति विद्मनाऽअपसः। अजायन्त। मरुतः। भ्राजदृष्टय इति भ्राजत्ऽऋष्टयः॥१२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(त्वम्) (अग्ने) परमेश्वर विद्वन् वा (प्रथमः) प्रख्यातः (अङ्गिराः) अङ्गानां रस इव वर्त्तमानो यद्वाऽड्गिभ्यो जीवात्मभ्यो सुखं राति ददाति सः (ऋषिः) ज्ञाता (देवः) दिव्यगुणकर्मस्वभावः (देवानाम्) विदुषाम् (अभवः) भवेः (शिवः) कल्याणकारी (सखा) मित्रः (तव) (व्रते) शीले नियमे वा (कवयः) मेधाविनः (विद्मनापसः) विद्मनानि विदितान्यपांसि कर्माणि येषान्ते (अजायन्त) जायन्ते (मरुतः) मनुष्याः (भ्राजदृष्टयः) भ्राजन्त्यः शोभमाना ऋष्टय आयुधानि येषान्ते॥१२॥
Essence
यदि मनुष्याः सर्वसुहृदं विद्वांसं सर्वमित्रं परमात्मानञ्च सखायं मत्वा विज्ञाननिमित्तानि कर्माणि कृत्वा प्रकाशितात्मनो भवेयुस्तर्हि ते विद्वांसो भूत्वा परमेश्वरस्याज्ञायां वर्त्तितुं शक्नुयुः॥१२॥
Subject
अथ जनैरीश्वराज्ञा पाल्येत्याह॥
Anvaya
हे अग्ने! यतस्त्वं प्रथमोऽङ्गिरा देवानां देवः शिवः सखा ऋषिरभवस्तस्मात् तव व्रते विद्मनापसो भ्राजदृष्टयः कवयो मरुतोऽजायन्त॥१२॥