Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 97

97 Mantra
33/97
Devata- महेन्द्रो देवता Rishi- मेधातिथिर्ऋषिः Chhand- स्वराट् सतो बृहती Swara- मध्यमः
Mantra with Swara
अ॒स्येदिन्द्रो॑ वावृधे॒ वृष्ण्य॒ꣳ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि।अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति पू॒र्वथा॑।इ॒मा उ त्वा। यस्या॒यम्। अ॒यꣳ स॒हस्र॑म्। ऊ॒र्ध्वऽऊ॒ षु णः॑॥९७॥

अ॒स्य। इत्। इन्द्रः॑। वा॒वृ॒धे॒। व॒वृ॒ध॒ऽइति॑ ववृधे। वृष्ण्य॑म्। शवः॑। मदे॑। सु॒तस्य॑। विष्ण॑वि ॥ अ॒द्य। तम्। अ॒स्य॒ म॒हि॒मान॑म्। आ॒यवः॑। अनु॑। स्तु॒व॒न्ति॒। पू॒र्वथेति॑ पू॒र्वऽथा॑ ॥९७ ॥

Mantra without Swara
अस्येदिन्द्रो वावृधे वृष्ण्यँ शवो मदे सुतस्य विष्णवि । अद्या तमस्य महिमानमायवोनुष्टुवन्ति पूर्वथा । इमाऽउ त्वा । यस्यायमयँ सहस्रमूर्ध्वऽऊ षु णः॥

अस्य। इत्। इन्द्रः। वावृधे। ववृधऽइति ववृधे। वृष्ण्यम्। शवः। मदे। सुतस्य। विष्णवि॥ अद्य। तम्। अस्य महिमानम्। आयवः। अनु। स्तुवन्ति। पूर्वथेति पूर्वऽथा॥९७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अस्य) संसारस्य (इत्) एव (इन्द्रः) परमश्वैर्य्ययुक्तो राजा (वावृधे) वर्द्धयति (वृष्ण्यम्) वृषा समर्थस्तस्येमम् (शवः) बलमुदकं वा। शव इति उदकनामसु पठितम्॥ (निघं॰१।१२) (मदे) आनन्दाय (सुतस्य) उत्पन्नस्य (विष्णवि) व्यापके परमेश्वरे। अत्र वाच्छन्दसीति घिसंज्ञाकार्य्याभावे गुणादेशेऽवादेशः। (अद्य) अत्र निपातस्य च [अ॰६.३.१३६] इति दीर्घः। (तम्) (अस्य) परमात्मनः (महिमानम्) महत्त्वम् (आयवः) ये स्वकर्मफलानि यान्ति ते मनुष्याः। आयव इति मनुष्यनामसु पठितम्॥ (निघं॰२।३) (अनु) (स्तुवन्ति) प्रशंसन्ति (पूर्वथा) पूर्वे इव॥९७॥
Essence
हे मनुष्याः! यदि यूयं सर्वत्र व्यापकस्य सर्वत्र व्यापकस्य सर्वजगदुत्पाकस्याखिलाधारकस्य परमैश्वर्यप्रापकस्याज्ञां महिमानं च विज्ञाय सर्वस्य संसारस्योपकारं कुरुत, तर्हि यूयं सततमानन्दं प्राप्नुतेति॥९७॥
Subject
अथ मनुष्यैः परमात्मा स्तोतव्य इत्युपदिश्यते॥
Anvaya
हे मनुष्याः! य इन्द्रो जीवो विष्णवि सुतस्याऽस्य मदे वृष्ण्यं शवोऽद्य वावृधेऽस्य परमात्मन इन्महिमानं पूर्वथायवोनुष्टुवन्ति तं यूयमपि स्तुवत॥९७॥