Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 95

97 Mantra
33/95
Devata- इन्द्रो देवता Rishi- नृमेध ऋषिः Chhand- भुरिग् बृहती Swara- मध्यमः
Mantra with Swara
अपा॑धमद॒भिश॑स्तीरशस्ति॒हाथेन्द्रो॑ द्यु॒म्न्याभ॑वत्।दे॒वास्त॑ऽइन्द्र स॒ख्याय॑ येमिरे॒ बृह॑द्भानो॒ मरु॑द्गण॥९५॥

अप॑। अ॒ध॒म॒त्। अ॒भिश॑स्ती॒रित्य॒भिऽश॑स्तीः। अ॒श॒स्ति॒हेत्य॑शस्ति॒ऽहा। अथ। इन्द्रः॑। द्यु॒म्नी। आ। अ॒भ॒व॒त् ॥ दे॒वाः। ते॒। इ॒न्द्र॒। स॒ख्याय॑। ये॒मि॒रे॒। बृह॑द्भानो॒ इति॒ बृह॑त्ऽभानो। मरु॑द्ग॒णेति॒ मरु॑त्ऽगण ॥९५ ॥

Mantra without Swara
अपाधमदभिशस्तीरशस्तिहाथेन्द्रो द्युम्न्याभवत् । देवास्तऽइन्द्र सख्याय येमिरे बृहद्भानो मरुद्गण ॥

अप। अधमत्। अभिशस्तीरित्यभिऽशस्तीः। अशस्तिहेत्यशस्तिऽहा। अथ। इन्द्रः। द्युम्नी। आ। अभवत्॥ देवाः। ते। इन्द्र। सख्याय। येमिरे। बृहद्भानो इति बृहत्ऽभानो। मरुद्गणेति मरुत्ऽगण॥९५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अप) दूरीकरणे (अधमत्) धमति (अभिशस्तीः) अभितो हिंसाः (अशस्तिहा) अप्रशस्तानां दुष्टानां हन्ता (अथ) (इन्द्रः) परमैश्वर्यवान् सभापती राजा (द्युम्नी) बहुप्रशंसाधनयुक्तः (आ) (अभवत्) भवतु (देवाः) विद्वांसः (ते) तव (इन्द्र) परमैश्वर्यप्रद सभापतेराजन्! (सख्याय) मित्रत्वाय (येमिरे) संयमं कुर्वन्ति (बृहद्भानो) बृहन्तो भानवः किरणा इव कीर्त्तयो यस्य तत्सम्बुद्धौ (मरुद्गण) मरुतां मनुष्याणां वायूनां वा गणः समूहो यस्य तत्सबुद्धौ॥९५॥
Essence
ये मनुष्या धार्मिकाणां न्यायधीशानां धनाढ्यानां वा मित्रतां कुर्वन्ति, ते यशस्विनो भूत्वा सर्वेषां दुःखनिवारणाय सूर्यवद्भवन्ति॥९५॥
Subject
अथ के जना दुःखनिवारणसमर्थाः सन्तीत्याह॥
Anvaya
ये बृहद्भानो मरुद्गगण इन्द्र! देवास्ते सख्याय येमिरेऽथ द्युम्नीन्द्रो भवानभिशस्तीरपाऽऽधमद-शस्तिहाऽभवद् भवतु॥९५॥