Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 94

97 Mantra
33/94
Devata- विश्वेदेवा देवताः Rishi- मनुर्ऋषिः Chhand- पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
दे॒वासो॒ हि ष्मा॒ मन॑वे॒ सम॑न्यवो॒ विश्वे॑ सा॒कꣳसरा॑तयः।ते नो॑ऽअ॒द्य ते अ॑प॒रं तु॒चे तु नो॒ भव॑न्तु वरिवो॒विदः॑॥९४॥

दे॒वासः॑। हि॑। स्म॒। मन॑वे। सम॑न्यव॒ इति॒ सऽम॑न्यवः। विश्वे॑। सा॒कम्। सरा॑तय॒ इति॒ सऽरा॑तयः ॥ ते। नः॒। अ॒द्य। ते। अ॒प॒रम्। तु॒चे। तु। नः॒। भव॑न्तु। व॒रि॒वो॒विद॒ इति॑ वरिवः॒ऽविदः॑ ॥९४ ॥

Mantra without Swara
देवासो हि ष्मा मनवे समन्यवो विश्वे साकँ सरातयः । ते नोऽअद्य तेऽअपरन्तुचे तु नो भवन्तु वरिवोविदः ॥

देवासः। हि। स्म। मनवे। समन्यव इति सऽमन्यवः। विश्वे। साकम्। सरातय इति सऽरातयः॥ ते। नः। अद्य। ते। अपरम्। तुचे। तु। नः। भवन्तु। वरिवोविद इति वरिवःऽविदः॥९४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(देवासः) विद्वांसः (हि) (स्म) प्रसिद्धौ। अत्र निपातस्य च [अ॰६.३.१३६] इति दीर्घः षत्वं च छान्दसम्। (मनवे) मनुष्याय (समन्यवः) समानो मन्युः क्रोधो येषान्ते (विश्वे) सर्वे (साकम्) सह (सरातयः) समाना रातयो दानानि येषान्ते (ते) (नः) अस्माकम् (अद्य) (ते) (अपरम्) भविष्यति काले (तुचे) पुत्रपौत्राद्यायाऽपत्याय। तुगित्यपत्यनामसु पठितम्॥ (निघं॰२।२) (तु) (नः) अस्माकम् (भवन्तु) (वरिवोविदः) ये वरिवः परिचरणं विदन्ति जानन्ति यद्वा वरिवो धनं वेदयन्ति प्रापयन्ति ते॥९४॥
Essence
ये मनुष्याः परस्परेभ्यः सुखानि दद्युर्ये साकं दुष्टानामुपरि क्रोधं कुर्युस्ते पुत्रपौत्रवन्तो भूत्वा मनुष्यसुखोन्नतये समर्था विद्वांसो भवितुमर्हन्ति॥९४॥
Subject
के मनुष्या विद्वांसो भवितुमर्हन्तीत्याह॥
Anvaya
हे मनुष्याः! ये सरातयः समन्यवो विश्वे देवासः साकमद्य नो मनवे स्म वरिवोविदो भवन्तु, ते त्वपरं नस्तुचेऽस्मभ्यञ्च वरिवोविदो भवन्तु, ते हि युष्मभ्यं वरिवोविदः स्युः॥९४॥