Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 89

97 Mantra
33/89
Devata- विश्वेदेवा देवताः Rishi- कण्व ऋषिः Chhand- भुरिगनुष्टुप् Swara- गान्धारः
Mantra with Swara
प्रैतु॒ ब्रह्म॑ण॒स्पतिः॒ प्र दे॒व्येतु सू॒नृता॑।अच्छा॑ वी॒रं नर्य्यं॑ प॒ङ्क्तिरा॑धसं दे॒वा यज्ञं॒ न॑यन्तु नः॥८९॥

प्र। ए॒तु॒। ब्रह्म॑णः। पतिः॑। प्र। दे॒वी। ए॒तु॒। सू॒नृता॑ ॥ अच्छ॑। वी॒रम्। नर्य्य॑म्। प॒ङ्क्तिरा॑धस॒मिति॑ प॒ङ्क्तिऽरा॑धसम्। दे॒वाः। य॒ज्ञम्। न॒य॒न्तु॒। नः॒ ॥८९ ॥

Mantra without Swara
प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता । अच्छा वीरन्नर्यम्पङ्क्तिराधसन्देवा यज्ञन्नयन्तु नः ॥

प्र। एतु। ब्रह्मणः। पतिः। प्र। देवी। एतु। सूनृता॥ अच्छ। वीरम्। नर्य्यम्। पङ्क्तिराधसमिति पङ्क्तिऽराधसम्। देवाः। यज्ञम्। नयन्तु। नः॥८९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(प्र) (एतु) प्राप्नोतु (ब्रह्मणस्पतिः) धनस्य वेदस्य वा पालकः स्वामी (प्र) (देवी) शुभगुणैर्देदीप्यमाना (एतु) प्राप्नोतु (सूनृता) सत्यलक्षणोज्ज्वलिता वाक् (अच्छ) अत्र निपातस्य च [अ॰६.३.१३६] इति दीर्घः। (वीरम्) (नर्यम्) नृषु साधुम् (पङ्क्तिराधसम्) पङ्क्तेः समूहस्य राधः संसिद्धिर्यस्मात् तम् (देवाः) विद्वांसः (यज्ञम्) सङ्गतधर्म्यं व्यवहारकर्त्तारम् (नयन्तु) प्रापयन्तु वा (नः) अस्मान्॥८९॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। ये विदुषः सत्यां वाचं सर्वोपकारान् वीरांश्च प्राप्नुयुस्ते सम्यक् सुखोन्नतिं कुर्य्युः॥८९॥
Subject
पुनर्मनुष्याः किं कुर्युरित्याह॥
Anvaya
हे मनुष्याः! यूयं यथा नोऽस्मान् ब्रह्मणस्पतिः प्रैतु, सूनृता देवो प्रैतु, नर्य्यं पङ्क्तिराधसं यज्ञं वीरं देवा अच्छ नयन्तु तथा अस्मान् प्राप्नुत॥८९॥