Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 87

97 Mantra
33/87
Devata- मित्रावरुणौ देवते Rishi- जमदग्निर्ऋषिः Chhand- निचृद् बृहती Swara- मध्यमः
Mantra with Swara
ऋध॑गि॒त्था स मर्त्यः॑ शश॒मे दे॒वता॑तये।यो नू॒नं मि॒त्रावरु॑णाव॒भिष्ट॑यऽआच॒क्रे ह॒व्यदा॑तये॥८७॥

ऋध॑क्। इ॒त्था। सः। मर्त्यः॑। श॒श॒मे। दे॒वता॑तये॒ इति॑ दे॒वऽता॑तये ॥ यः। नू॒नम्। मि॒त्रावरु॑णौ। अ॒भिष्ट॑ये। आ॒च॒क्रे इत्या॑ऽच॒क्रे। ह॒व्यदा॑तय॒ इति॑ ह॒व्यऽदा॑तये ॥८७ ॥

Mantra without Swara
ऋधगित्था स मर्त्यः शशमे देवतातये । यो नूनम्मित्रावरुणावभिष्टयऽआचक्रे हव्यदातये ॥

ऋधक्। इत्था। सः। मर्त्यः। शशमे। देवतातये इति देवऽतातये॥ यः। नूनम्। मित्रावरुणौ। अभिष्टये। आचक्रे इत्याऽचक्रे। हव्यदातय इति हव्यऽदातये॥८७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(ऋधक्) यः समृध्नोति सः (इत्था) अस्माद्धेतोः (सः) (मर्त्यः) मनुष्यः (शशमे) शाम्यति निरुपद्रवो भवति। अत्र एत्वाभ्यासलोपाभावश्छान्दसः। (देवतातये) देवेभ्यो विद्वद्भ्यो दिव्यगुणेभ्यो वा (यः) (नूनम्) निश्चितम्। (मित्रावरुणौ) प्राणोदानाविव राजप्रजाजनौ (अभिष्टये) अभीष्टसुखप्राप्तये (आचक्रे) सेवते। अत्र गन्धनावक्षेपण॥ (अष्टा॰१।३।३२) इति करोतेः सेवनार्थ आत्मनेपदम्। (हव्यदातये) हव्यानामादातुमर्हाणामा-दानाय॥८७॥
Essence
ये शमदमादिगुणान्विताः राजप्रजाजना इष्टसुखसिद्धये प्रयतेरँस्तेऽवश्यं समृद्धिमन्तो भवेयुः॥८७॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
यो देवतातय ऋधग्मर्त्योऽभिष्टये हव्यदातये च मित्रावरुणौ नूनमाचक्रे स नर इत्था शशमे॥८७॥