Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 86

97 Mantra
33/86
Devata- इन्द्रवायू देवते Rishi- तापस ऋषिः Chhand- निचृद् बृहती Swara- मध्यमः
Mantra with Swara
इ॒न्द्र॒वा॒यू सु॑स॒न्दृशा॑ सु॒हवे॒ह ह॑वामहे।यथा॑ नः॒ सर्व॒ऽइज्जनो॑ऽनमी॒वः स॒ङ्गमे॑ सु॒मना॒ऽअस॑त्॥८६॥

इ॒न्द्र॒वा॒यू इती॑न्द्रऽवा॒यू। सु॒स॒न्दृशेति॑ सुऽस॒न्दृशा॑। सु॒हवेति॑ सु॒ऽहवा॑। इ॒ह। ह॒वा॒म॒हे॒ ॥ यथा॑। नः॒। सर्वः॑। इत्। जनः॑। अ॒न॒मी॒वः। स॒ङ्गम॒ इति॑ स॒म्ऽगमे॑। सु॒मना॒ इति॑ सु॒ऽमनाः॑। अस॑त् ॥८६ ॥

Mantra without Swara
इन्द्रवायू सुसन्दृशा सुहवेह हवामहे । यथा नः सर्व इज्जनो नमीवः सङ्गमे सुमनाऽअसत्॥

इन्द्रवायू इतीन्द्रऽवायू। सुसन्दृशेति सुऽसन्दृशा। सुहवेति सुऽहवा। इह। हवामहे॥ यथा। नः। सर्वः। इत्। जनः। अनमीवः। सङ्गम इति सम्ऽगमे। सुमना इति सुऽमनाः। असत्॥८६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(इन्द्रवायू) राजप्रजाजनौ (सुसन्दृशा) सुष्ठु सम्यक् द्रष्टारौ (सुहवा) सुष्ठ्वाहवनीयौ (इह) (हवामहे) स्वीकुर्महे (यथा) (नः) अस्माकम् (सर्वः) (इत्) एव (जनः) (अनमीवः) अरोगः (सङ्गमे) सङ्ग्रामे समागमे वा। सङ्गम इति संग्रामनामसु पठितम्॥ (निघं॰२।१७) (सुमनाः) प्रसन्नचित्तः (असत्) भवेत्॥८६॥
Essence
अत्रोपमालङ्कारः। तथैव राजप्रजाजनाः प्रयतेरन् यथा सर्वे मनुष्यादयः प्राणिनोऽरोगाः प्रसन्नमनसो भूत्वा पुरुषार्थिनः स्युः॥८६॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
वयं यौ सुसन्दृशा सुहवा इन्द्रवायू इह हवामहे यथा सङ्गमे नोऽनमीवः सुमनाः सर्व इज्जनो असत् तथा तौ कुर्याताम्॥८६॥