Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 80

97 Mantra
33/80
Devata- महेन्द्रो देवता Rishi- बृहद्दिव ऋषिः Chhand- पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
तदिदा॑स॒ भुव॑नेषु॒ ज्येष्ठं॒ यतो॑ ज॒ज्ञऽ उ॒ग्रस्त्वे॒षनृ॑म्णः।स॒द्यो ज॑ज्ञा॒नो निरि॑णाति॒ शत्रू॒ननु॒ यं विश्वे॒ मद॒न्त्यूमाः॑॥८०॥

तत्। इत्। आ॒स॒। भुव॑नेषु। ज्येष्ठ॑म्। यतः॑। ज॒ज्ञे। उ॒ग्रः। त्वे॒षनृ॑म्ण॒ इति॑ त्वे॒षऽनृ॑म्णः ॥ स॒द्यः। ज॒ज्ञा॒नः। निरि॑णाति। शत्रू॑न्। अनु॑। यम्। विश्वे॑। मद॑न्ति। ऊमाः॑ ॥८० ॥

Mantra without Swara
तदिदास भुवनेषु ज्येष्ठँयतो जज्ञऽउग्रस्त्वेषनृम्णः । सद्यो जज्ञानो नि रिणाति शत्रूननु यँविश्वे मदन्त्यूमाः ॥

तत्। इत्। आस। भुवनेषु। ज्येष्ठम्। यतः। जज्ञे। उग्रः। त्वेषनृम्ण इति त्वेषऽनृम्णः॥ सद्यः। जज्ञानः। निरिणाति। शत्रून्। अनु। यम्। विश्वे। मदन्ति। ऊमाः॥८०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(तत्) (इत्) (आस) अस्ति। अत्र छन्दस्युभयथा [अ॰३.४.११७] इति लिट आर्द्धधातुकसंज्ञाभावः। (भुवनेषु) लोकलोकान्तरेषु (ज्येष्ठम्) वृद्धं श्रेष्ठम् (यतः) यस्मात् (जज्ञे) (उग्रः) तीक्ष्णस्वभावः (त्वेषनृम्णः) त्वेषं सुप्रकाशितं नृम्णं धनं यस्य सः (सद्यः) (जज्ञानः) जायमानः (निरिणाति) हिनस्ति (शत्रून्) (अनु) (यम्) (विश्वे) सर्वे (मदन्ति) हृष्यन्ति (ऊमाः) रक्षादिकर्मकर्त्तारः॥८०॥
Essence
हे मनुष्याः! यस्योपासनाच्छूरा वीरत्वमुपलभ्य शत्रून् हन्तुं शक्नुवन्ति, यमुपास्य विद्वांस आनन्दिता भूत्वा सर्वानानन्दयन्ति, तमेव सर्वोत्कृष्टं सर्वोपास्यं परमेश्वरं सर्वे निश्चिन्वन्तु॥८०॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! यत उग्रस्त्वेषनृम्णो वीरो जज्ञे यो जज्ञानः शत्रून् सद्यो निरिणाति विश्वा ऊमा यमनुमदन्ति तदिदेव ब्रह्म भुवनेषु ज्येष्ठमासेति विजानीत॥८०॥