Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 78

97 Mantra
33/78
Devata- इन्द्रामरुतौ देवते Rishi- अगस्त्य ऋषिः Chhand- विराट् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
ब्रह्मा॑णि मे म॒तयः॒ शꣳसु॒तासः॒ शुष्म॑ऽइयर्त्ति॒ प्रभृ॑तो मे॒ऽअद्रिः॑।आ शा॑सते॒ प्रति॑ हर्य्यन्त्यु॒क्थेमा हरी॑ वहत॒स्ता नो॒ऽअच्छ॑॥७८॥

ब्रह्मा॑णि। मे॒। म॒तयः॑। शम्। सु॒तासः॑। शुष्मः॑। इ॒य॒र्त्ति॒। प्रभृ॑त॒ इति॒ प्रभृ॑तः। मे॒। अद्रिः॑ ॥ आ। शा॒स॒ते॒। प्रति॑। ह॒र्य्य॒न्ति॒। उ॒क्था। इ॒मा। हरी॒ऽइति॒ हरी॑। व॒ह॒तः॒। ता। नः॒। अच्छ॑ ॥७८ ॥

Mantra without Swara
ब्रह्माणि मे मतयः शँ सुतासः शुष्मऽइयर्ति प्रभृतो मेऽअद्रिः । आ शासते प्रतिहर्यन्त्युक्थेमा हरी वहतस्ता नोऽअच्छ ॥

ब्रह्माणि। मे। मतयः। शम्। सुतासः। शुष्मः। इयर्त्ति। प्रभृत इति प्रभृतः। मे। अद्रिः॥ आ। शासते। प्रति। हर्य्यन्ति। उक्था। इमा। हरीऽइति हरी। वहतः। ता। नः। अच्छ॥७८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(ब्रह्माणि) धनानि (मे) मह्यम् (मतयः) मेधाविनः। मतय इति मेधाविनाम॥ (निघं॰३।१५) (शम्) सुखम् (सुतासः) विद्यासुशिक्षाभ्यां निष्पन्ना ऐश्वर्यवन्तः (शुष्मः) बलकरः (इयर्त्ति) अर्पयति। अत्रान्तर्गतो णिच्। (प्रभृतः) प्रकर्षेण हवनादिना पोषितः (मे) मह्यम् (अद्रिः) मेघः (आ) (शासते) आशां कुर्वन्ति। (प्रति) (हर्यन्ति) कामयन्ते (उक्था) प्रशंसनीयानि वेदवचांसि (इमा) इमानि (हरी) हरणशीलावध्यापकाऽध्येतारौ (वहतः) प्रापयतः (ता) तानि (नः) अस्मभ्यम् (अच्छ)॥७८॥
Essence
हे विद्वांसो! येन कर्मणा विद्यामेधोन्नतिः स्यात् तत्कुरुत ये युष्मद्विद्यासुशिक्षे कामयन्ते तान् प्रीत्या प्रयच्छत ये भवद्भ्योऽधिकास्तेभ्यो यूयं विद्यां गृह्णीत॥७८॥
Subject
पुनर्विद्वांसः किं कुर्युरित्याह॥
Anvaya
सुतासो मतयो मे यानि ब्रह्माणि प्रति हर्य्यन्ति इमोक्थाऽऽशासते शुष्मः प्रभृतोऽद्रिर्मे यत् शमियर्त्ति ता तानि नोऽस्मभ्यं हर्य्यच्छ वहतः॥७८॥