Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 75

97 Mantra
33/75
Devata- विद्वान् देवता Rishi- विश्वामित्र ऋषिः Chhand- निचृज्जगती Swara- निषादः
Mantra with Swara
आ रोद॑सीऽअपृण॒दा स्व॑र्म॒हज्जा॒तं यदे॑नम॒पसो॒ऽअधा॑रयन्।सोऽअ॑ध्व॒राय॒ परि॑ णीयते क॒विरत्यो॒ न वाज॑सातये॒ चनो॑हितः॥७५॥

आ। रोद॑सी॒ऽइति॒ रोद॑सी। अ॒पृ॒ण॒त्। आ। स्वः॑। म॒हत्। जा॒तम्। यत्। ए॒न॒म्। अ॒पसः॑। अधा॑रयन् ॥ सः। अ॒ध्व॒राय॑। परि॑। नी॒य॒ते॒। क॒विः। अत्यः॑। न। वाज॑सातये॒ऽइति॒ वाज॑ऽसातये। चनो॑हित॒ऽइति॒ चनः॑ऽहितः ॥७५ ॥

Mantra without Swara
आ रोदसीऽअपृणदा स्वर्महज्जातन्यदेनमपसोऽअधारयन् । सोऽअध्वराय परिणीयते कविरत्यो न वाजसातये चनोहितः ॥

आ। रोदसीऽइति रोदसी। अपृणत्। आ। स्वः। महत्। जातम्। यत्। एनम्। अपसः। अधारयन्॥ सः। अध्वराय। परि। नीयते। कविः। अत्यः। न। वाजसातयेऽइति वाजऽसातये। चनोहितऽइति चनःऽहितः॥७५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(आ) समन्तात् (रोदसी) द्यावापृथिव्यौ (अपृणत्) पृणाति व्याप्नोति (आ) (स्वः) अन्तरिक्षम् (महत्) (जातम्) (यत्) (एनम्) (अपसः) कर्माणि (अधारयन्) धारयन्ति (सः) (अध्वराय) अहिंसाख्याय शिल्पमयाय यज्ञाय (परि) सर्वतः (नीयते) प्राप्यते (कविः) शब्दहेतुः (अत्यः) योऽतति व्याप्नोत्यध्वानं सोऽश्वः (न) इव (वाजसातये) वाजस्य वेगस्य संभजनाय (चनोहितः) चनसे पृथिव्याद्यन्नाय हितकारी। चन इत्यन्ननाम। (निरु॰६।१६)॥७५॥
Essence
मनुष्यैरनेकविधैर्विज्ञानकर्मभिर्विद्युद्विद्यां लब्ध्वा भूम्यादिषु व्याप्तो विभाजकश्च साधितः सन् यानादीनां सद्यो गमयिताऽग्निः कार्येषूपयोक्तव्यः॥७५॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! यद्यो विद्युद्रूपोऽग्नी रोदसी महज्जातं स्वश्चाऽऽपृणदेनमपस आधारयन् यश्च कविरध्वराय वाजसातये चात्यो न विद्वद्भिः परिणीयते स चनोहितोऽस्तीति यूयं विजानीत॥७५॥