Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 70

97 Mantra
33/70
Devata- वायुर्देवता Rishi- वसिष्ठ ऋषिः Chhand- विराट् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
प्र वी॑र॒या शुच॑यो दद्रिरे वामध्व॒र्युभि॒र्मधु॑मन्तः सु॒तासः॑।वह॑ वायो नि॒युतो॑ या॒ह्यच्छा॒ पिबा॑ सु॒तस्यान्ध॑सो॒ मदा॑य॥७०॥

प्र। वी॒र॒येति॑ वीर॒ऽया। शुच॑यः। द॒द्रिरे॒। वा॒म्। अ॒ध्व॒र्युभि॒रित्य॑ध्वर्युऽभिः॑। मधु॑मन्त॒ इति॒ मधु॑मन्तः। सु॒तासः॑। वह॑। वा॒योऽइति॑ वायो। नि॒युत॒ इति॑ नि॒ऽयुतः॑। या॒हि॒। अच्छ॑। पिब॑। सु॒तस्य॑। अन्ध॑सः। मदा॑य ॥७० ॥

Mantra without Swara
प्रवीरया शुचयो दद्रिरे वामध्वर्युभिर्मधुमन्तः सुतासः । वह वायो नियुतो याह्यच्छा पिबा सुतस्यान्धसो मदाय ॥

प्र। वीरयेति वीरऽया। शुचयः। दद्रिरे। वाम्। अध्वर्युभिरित्यध्वर्युऽभिः। मधुमन्त इति मधुमन्तः। सुतासः। वह। वायोऽइति वायो। नियुत इति निऽयुतः। याहि। अच्छ। पिब। सुतस्य। अन्धसः। मदाय॥७०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(प्र) (वीरया) वीरयुक्तया (शुचयः) पवित्राः (दद्रिरे) विदीर्णान् कुर्वन्ति। व्यत्ययेनात्रात्मनेपदम्। (वाम्) युवयोः राजप्रजाजनयोः (अध्वर्युभिः) हिंसाऽन्यायवर्जितैः सह (मधुमन्तः) प्रशस्तविज्ञानयुक्ताः (सुतासः) विद्यासुशिक्षाभ्यां निष्पन्नाः (वह) प्रापय (वायो) वायुवद्वर्त्तमान बलिष्ठ राजन्! (नियुतः) नितरां मिश्रितामिश्रितान् वाय्वादिगुणान् (याहि) प्राप्नुहि (अच्छ) सम्यक्। अत्र निपातस्य च [अ॰६.३.१३६] इति दीर्घः। (पिब) अत्र द्व्यचोऽतस्तिङः [अ॰६.३.१३५] इति दीर्घः। (सुतस्य) निष्पन्नस्य (अन्धसः) अन्नस्य (मदाय) आनन्दाय॥७०॥
Essence
ये पवित्राचरणा राजप्रजाभक्ता विज्ञानवन्तो वीरसेनया शत्रून् विदृणन्ति तान् प्राप्य राजाऽऽनन्दितो भवेत्। यथा स्वस्मा आनन्दमिच्छेत् तथा राजप्रजाजनेभ्योऽपि काङ्क्षेत॥७०॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे राजप्रजाजनौ! ये वां मधुमन्तः सुतासः शुचयो जना अध्वर्युभिः वीरया सेनया शत्रून् प्र दद्रिरे तैः सह हे वायो! त्वं नियुतः वह अच्छ याहि मदाय सुतस्यान्धसो रसं च पिब॥७०॥