Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 67

97 Mantra
33/67
Devata- इन्द्रो देवता Rishi- नृमेध ऋषिः Chhand- पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
अनु॑ ते॒ शुष्मं॑ तु॒रय॑न्तमीयतुः क्षो॒णी शिशुं॒ न मा॒तरा॑।विश्वा॑स्ते॒ स्पृधः॑ श्नथयन्त म॒न्यवे॑ वृ॒त्रं यदि॑न्द्र॒ तूर्व॑सि ॥६७॥

अनु॑। ते॒। शुष्म॑म्। तु॒रय॑न्तम्। ई॒य॒तुः॒। क्षो॒णीऽइति॑ क्षो॒णी। शिशु॑म्। न। मा॒तरा॑ ॥ विश्वाः॑। ते॒। स्पृधः॑। श्न॒थ॒य॒न्त॒। म॒न्यवे॑। वृ॒त्रम्। यत्। इ॒न्द्र॒। तूर्व॑सि ॥६७ ॥

Mantra without Swara
अनु ते शुष्मन्तुरयन्तमीयतुः क्षोणी शिशुन्न मातरा । विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रँयदिन्द्र तूर्वसि ॥

अनु। ते। शुष्मम्। तुरयन्तम्। ईयतुः। क्षोणीऽइति क्षोणी। शिशुम्। न। मातरा॥ विश्वाः। ते। स्पृधः। श्नथयन्त। मन्यवे। वृत्रम्। यत्। इन्द्र। तूर्वसि॥६७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अनु) (ते) तव (शुष्मम्) शत्रूणां शोषकं बलम् (तुरयन्तम्) हिंसन्तम् (ईयतुः) गच्छतः (क्षोणी) स्वपरभूमी। क्षोणीति पृथिवीनामसु पठितम्॥ (निघं॰१।१) (शिशुम्) बालकम् (न) इव (मातरा) मातापितरौ (विश्वाः) अखिलाः (ते) तव (स्पृधः) अरिसेनाः (श्नथयन्तः) श्नथयन्ति हता भवन्ति। अत्राडभावः। (मन्यवे) क्रोधात्। पञ्चम्यर्थे चतुर्थी। (वृत्रम्) न्यायावरकं शत्रुम् (यत्) यम् (इन्द्र) शत्रुविदारक (तूर्वसि) हिनस्ति॥६७॥
Essence
अत्रोपमालङ्कारः। येषां राजपुरुषाणां हृष्टाः पुष्टा युद्धं प्रतिजानानाः सेनाः स्युस्ते सर्वत्र विजयमाप्नुयुः॥६७॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे इन्द्र! यस्य ते तुरयन्तं शुष्मं शिशुं मातरा न क्षोणी अन्वीयतुस्तस्य ते मन्यवे विश्वाः स्पृधः श्नथयन्त यद्यं वृत्रं शत्रुं त्वं तूर्वसि स पराजितो भवति॥६७॥