Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 66

97 Mantra
33/66
Devata- इन्द्रो देवता Rishi- नृमेध ऋषिः Chhand- भुरिगनुष्टुप् Swara- गान्धारः
Mantra with Swara
त्वमि॑न्द्र॒ प्रतू॑र्त्तिष्व॒भि विश्वा॑ऽअसि॒ स्पृधः॑।अ॒श॒स्ति॒हा ज॑नि॒ता वि॑श्व॒तूर॑सि॒ त्वं तू॑र्य्य तरुष्य॒तः॥६६॥

त्वम्। इ॒न्द्र॒। प्रतू॑र्त्ति॒ष्विति॑ प्रऽतू॑र्त्तिषु। अ॒भि। विश्वाः॑। अ॒सि॒। स्पृधः॑ ॥ अ॒श॒स्ति॒हेत्य॑ऽशस्ति॒हा। ज॒नि॒ता। विश्व॒तूरिति॑ विश्व॒ऽतूः। अ॒सि॒। त्वम्। तू॒र्य॒। त॒रु॒ष्य॒तः ॥६६ ॥

Mantra without Swara
त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः । अशस्तिहा जनिता विश्वतूरसि त्वन्तूर्य तरुष्यतः ॥

त्वम्। इन्द्र। प्रतूर्त्तिष्विति प्रऽतूर्त्तिषु। अभि। विश्वाः। असि। स्पृधः॥ अशस्तिहेत्यऽशस्तिहा। जनिता। विश्वतूरिति विश्वऽतूः। असि। त्वम्। तूर्य। तरुष्यतः॥६६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(त्वम्) (इन्द्र) परमैश्वर्य्यप्रद (प्रतूर्त्तिषु) हननकर्मसु सङ्ग्रामेषु (अभि) (विश्वा) सर्वाः (असि) भवसि (स्पृधः) स्पर्द्धमाना ईर्ष्यायुक्ताः शत्रुसेनाः (अशस्तिहा) अप्रशंसानां दुष्टानां हन्ता (जनिता) सुखानि प्रादुर्भावुकः (विश्वतूः) विश्वान् शत्रून् तूर्यति हिनस्ति सः (असि) (त्वम्) (तूर्य) हिन्धि (तरुष्यतः) हनिष्यतः शत्रून्॥६६॥
Essence
ये पुरुषा अधर्म्यकर्मनिवर्त्तकाः सुखानां जनका युद्धविद्यासु कुशलाः स्युस्ते शत्रून् विजेतुं शक्नुयुः॥६६॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे इन्द्र! यतस्त्वं प्रतूर्त्तिषु विश्वा स्पृधोऽभ्यसि। अशस्तिहा जनिता विश्वतूस्सँस्त्वं विजयवानसि। तस्मात् तरुष्यतस्तूर्य्य॥६६॥