Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 64

97 Mantra
33/64
Devata- इन्द्रो देवता Rishi- गौरीवितिर्ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
जनि॑ष्ठाऽउ॒ग्रः सह॑से तु॒राय॑ म॒न्द्रऽओजि॑ष्ठो बहु॒लाभि॑मानः।अव॑र्द्ध॒न्निन्द्रं॑ म॒रुत॑श्चि॒दत्र॑ मा॒ता यद्वी॒रं द॒धन॒द्धनि॑ष्ठा॥६४॥

जनि॑ष्ठाः। उ॒ग्रः। सह॑से। तु॒राय॑। म॒न्द्रः। ओजि॑ष्ठः। ब॒हु॒लाभि॑मान॒ इति॑ ब॒हु॒लऽअ॑भिमानः ॥ अव॑र्द्धन्। इन्द्र॑म्। म॒रुतः॑। चि॒त्। अत्र॑। मा॒ता। यत्। वी॒रम्। द॒धन॑त्। धनि॑ष्ठा ॥६४ ॥

Mantra without Swara
जनिष्ठाऽउग्रः सहसे तुराय मन्द्रऽओजिष्ठो बहुलाभिमानः । अवर्धन्निन्द्रम्मरुतश्चिदत्र माता यद्वीरन्दधनद्धनिष्ठा ॥

जनिष्ठाः। उग्रः। सहसे। तुराय। मन्द्रः। ओजिष्ठः। बहुलाभिमान इति बहुलऽअभिमानः॥ अवर्द्धन्। इन्द्रम्। मरुतः। चित्। अत्र। माता। यत्। वीरम्। दधनत्। धनिष्ठा॥६४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(जनिष्ठाः) जनयेः। अत्र लुङ्यडभावः। (उग्रः) तेजस्विस्वभावः (सहसे) बलाय (तुराय) शीघ्रत्वाय (मन्द्रः) स्तुत आनन्दप्रदः (ओजिष्ठः) अतिशयेन ओजस्वी (बहुलाभिमानः) बहुलो बहुविधोऽभिमानो यस्य सः (अवर्द्धन्) (इन्द्रम्) सूर्य्यम् (मरुतः) वायवः (चित्) इव (अत्र) अस्मिन् राज्यपालनव्यवहारे (माता) जननी (यत्) यम् (वीरम्) शौर्यादिगुणयुक्तं पुत्रम् (दधनत्) अपोषयत्। अनकारागमश्छान्दसः। (धनिष्ठा) अतिशयेन धनिनी॥६४॥
Essence
अत्रोपमालङ्कारः। यः स्वयं ब्रह्मचर्य्येण शरीरात्मबलयुक्तो विद्वान् स दुष्टान् प्रत्युग्रः कठिनस्वभावः श्रेष्ठे सोऽन्यस्वभावः सन् बहुसुसभ्यावृतो धर्मात्मा भूत्वा न्यायविनयाभ्यां राज्य पालयेत्, स सर्वतोऽभिवर्द्धेत॥६४॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे राजन्! धनिष्ठा माता यद्वीरं दधनदिन्द्रं मरुतश्चिदिव सभ्या यं त्वामवर्धयन्त्स त्वमत्र सहसे तुराय उग्रो मन्द्र ओजिष्ठो बहुलाभिमानः सन् सुखं जनिष्ठाः॥६४॥