Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 6

97 Mantra
33/6
Devata- अग्निर्देवता Rishi- कुत्स ऋषिः Chhand- भुरिक् पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठोऽअध्व॒रेष्वीड्यः॑।यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं वि॒शेवि॑शे॥६॥

अ॒यम्। इ॒ह। प्र॒थ॒मः। धा॒यि॒। धा॒तृभि॒रिति॑ धा॒तृऽभिः॑। होता॑। यजि॑ष्ठः। अ॒ध्व॒रेषु॑। ईड्यः॑ ॥ यम्। अप्न॑वानः। भृग॑वः। वि॒रु॒रु॒चुरिति॑ विऽरुरु॒चुः। वने॑षु। चि॒त्रम्। वि॒भ्व᳖मिति॑ वि॒भ्व᳖म्। वि॒शवि॑शे॒ इति॑ वि॒शेऽवि॑शे ॥६ ॥

Mantra without Swara
अयमिह प्रथमो धायि धातृभिर्हाता यजिष्ठोऽअध्वरेष्वीड्यः । यमप्नवानो भृगवो विरुरुचुर्वनेषु चित्रँविभ्वँविशेविशे ॥

अयम्। इह। प्रथमः। धायि। धातृभिरिति धातृऽभिः। होता। यजिष्ठः। अध्वरेषु। ईड्यः॥ यम्। अप्नवानः। भृगवः। विरुरुचुरिति विऽरुरुचुः। वनेषु। चित्रम्। विभ्वमिति विभ्वम्। विशविशे इति विशेऽविशे॥६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अयम्) विद्युदादिस्वरूपः (इह) अस्मिन् संसारे (प्रथमः) विस्तीर्णः (धायि) ध्रियते (धातृभिः) धर्तृभिः (होता) सुखदाता (यजिष्ठः) अतिशयेन यष्टा सङ्गमयिता (अध्वरेषु) अहिंसनीयेषु व्यवहारेषु (ईड्यः) अध्येषणीयः (यम्) (अप्नवानः) सुसन्तानयुक्ताः सुशिष्याः (भृगवः) परिपक्वज्ञानाः (विरुरुचुः) विशेषेण दीपयेयुः (वनेषु) किरणेषु वा (चित्रम्) अद्भुतगुणकर्मस्वभावम् (विभ्वम्) विभुं विद्युदाख्यमग्निम् (विशे, विशे) प्रजायै, प्रजायै॥६॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। ये विद्वांस इह विद्युद्विद्यां जानन्ति, ते सर्वाः प्रजाः सर्वसुखयुक्ताः कर्त्तुं शक्नुवन्ति॥६॥
Subject
विद्वद्भिः किं कर्त्तव्यमित्याह॥
Anvaya
हे मनुष्याः! यथा धातृभिरिह विशे विशेऽयं प्रथमो होता यजिष्ठोऽध्वरेष्वीड्यो धायि यथा भृगवश्चाप्नवानो यं वनेषु चित्रं विभ्वं विरुरुचुस्तं यूयं धरत प्रकाशयत च॥६॥