Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 59

97 Mantra
33/59
Devata- इन्द्रो देवता Rishi- कुशिक ऋषिः Chhand- भुरिक् पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
वि॒दद्यदी॑ स॒रमा॑ रु॒ग्णमद्रे॒र्महि॒ पाथः॑ पू॒र्व्यꣳ स॒ध्र्यक्कः।अग्रं॑ नयत्सु॒पद्यक्ष॑राणा॒मच्छा॒ रवं॑ प्रथ॒मा जा॑न॒ती गा॑त्॥५९॥

वि॒दत्। यदि॑। स॒रमा॑। रु॒ग्णम्। अद्रेः॑। महि॑। पाथः॑। पूर्व्यम्। स॒ध्र्य॒क्। क॒रिति॑ कः ॥ अग्र॑म्। न॒य॒त्। सु॒पदीति॑ सु॒ऽपदी॑। अक्ष॑राणाम्। अच्छ॑। रव॑म्। प्र॒थ॒मा। जा॒न॒ती। गा॒त् ॥५९ ॥

Mantra without Swara
विदद्यदी सरमा रुग्णमद्रेर्महि पाथः पूर्व्यँ सर्ध्यक्कः । अग्रन्नयत्सुपद्यक्षराणामच्छा रवम्प्रथमा जानती गात् ॥

विदत्। यदि। सरमा। रुग्णम्। अद्रेः। महि। पाथः। पूर्व्यम्। सध्र्यक्। करिति कः॥ अग्रम्। नयत्। सुपदीति सुऽपदी। अक्षराणाम्। अच्छ। रवम्। प्रथमा। जानती। गात्॥५९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(विदत्) जानीयात्। अ[भावः। (यदि) अत्र निपातस्य च [अ॰६.३.१३६] इति दीर्घः। (सरमा) समानं रमा रमणमस्याः सा (रुग्णम्) रोगिणम् (अद्रेः) मेघात् (महि) महत् (पाथः) अन्नम् (पूर्व्यम्) पूर्वं लब्धम् (सध्र्यक्) यः सहाञ्चतीति सः (कः) कुर्यात् (अग्रम्) पुरः (नयत्) प्राप्नुवत् (सुपदी) शोभना पादा यस्याः सा (अक्षराणाम्) (अच्छ) सम्यक्। अत्र निपातस्य च [अ॰६.३.१३६] इति दीर्घः। (रवम्) शब्दम् (प्रथमा) प्रख्याता (जानती) विज्ञानवती (गात्) प्राप्नोतु॥५९॥
Essence
या स्त्री वैद्यवत् सर्वेषां हितकारिण्यौषधवदन्नं साद्धुं शक्नुयाद् यथायोग्यं भाषणं विजानीयात् सोत्तमं सुखं सततमाप्नुयात्॥५९॥
Subject
अथ स्त्री किं कुर्यादित्याह॥
Anvaya
यदि सरमा प्रथमा सुपद्यक्षराणां रवं जानती रुग्णं विददग्रन्नयत् सध्र्यक् पूर्व्यं मह्यद्रेरुत्पन्नं पाथः कः कुर्यात् पतिमच्छ गात्तर्हि सा सर्वं सुखमाप्नुयात्॥५९॥