Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 55

97 Mantra
33/55
Devata- वायुर्देवता Rishi- याज्ञवल्क्य ऋषिः Chhand- निचृत त्रिष्टुप् Swara- धैवतः
Mantra with Swara
प्र वा॒युमच्छा॑ बृह॒ती म॑नी॒षा बृ॒हद्र॑यिं॒ वि॒श्ववा॑रꣳ रथ॒प्राम्। द्यु॒तद्या॑मा नि॒युतः॒ पत्य॑मानः क॒विः क॒विमि॑यक्षसि प्रयज्यो॥५५॥

प्र। वा॒युम्। अच्छ॑। बृ॒ह॒ती। म॒नी॒षा। बृ॒हद्र॑यि॒मिति॑ बृ॒हत्ऽर॑यिम्। वि॒श्ववा॑र॒मिति॑ वि॒श्वऽवा॑रम्। र॒थ॒प्रामिति॑ रथ॒ऽप्राम्। द्यु॒तद्या॒मेति॑ द्यु॒तत्ऽया॑मा। नि॒युत॒ इति॑ नि॒ऽयुतः॑। पत्य॑मानः। क॒विः। क॒विम्। इ॒य॒क्ष॒सि॒। प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो ॥५५ ॥

Mantra without Swara
प्र वायुमच्छा बृहती मनीषा बृहद्रयिँविश्ववारँ रथप्राम् । द्युतद्यामा नियुतः पत्यमानः कविः कविमियक्षसि प्रयज्यो ॥

प्र। वायुम्। अच्छ। बृहती। मनीषा। बृहद्रयिमिति बृहत्ऽरयिम्। विश्ववारमिति विश्वऽवारम्। रथप्रामिति रथऽप्राम्। द्युतद्यामेति द्युतत्ऽयामा। नियुत इति निऽयुतः। पत्यमानः। कविः। कविम्। इयक्षसि। प्रयज्यो इति प्रऽयज्यो॥५५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(प्र) (वायुम्) प्राणादिलक्षणम् (अच्छ) शोभने। अत्र निपातस्य च [अ॰६.३.१३६] इति दीर्घः। (बृहती) महती (मनीषा) प्रज्ञा (बृहद्रयिम्) बृहन्तो रययो यस्मिंस्तम् (विश्ववारम्) यो विश्वं वृणोति तम् (रथप्राम्) यो रथान् यानानि प्राति व्याप्नोति तम् (द्युतद्यामा) द्युतद्दीप्यमानमग्निं याति तम्। अत्र विभक्तेर्लुक् संहितायाम् [अ॰६.३.११४] इति दीर्घः। (नियुतः) निश्चितान् (पत्यमानः) प्राप्नुवन् (कविः) मेधावी विद्वान् (कविम्) मेधाविनम् (इयक्षसि) यष्टुं सङ्गन्तुमिच्छसि (प्रयज्यो) प्रकृष्टतया यज्ञकर्त्तुः॥५५॥
Essence
ये विद्वांसं प्राप्य पूर्णां विद्याप्रज्ञामखिलं धनं प्राप्नुयुस्ते सत्कर्त्तव्याः स्युः॥५५॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे प्रयज्यो विद्वन्! नियुतः पत्यमानः कविः संस्त्वं या ते बृहती मनीषा तया बृहद्रयिं विश्ववारं रथप्रां द्युतद्यामा वायुं कविं चाच्छ प्रेयक्षसि तस्मात् सर्वैः सत्कर्त्तव्योऽसि॥५५॥