Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 54

97 Mantra
33/54
Devata- विश्वेदेवा देवताः Rishi- वामदेव ऋषिः Chhand- निचृत त्रिष्टुप् Swara- धैवतः
Mantra with Swara
दे॒वेभ्यो॒ हि प्र॑थ॒मं य॒ज्ञिये॑भ्योऽमृत॒त्वꣳ सु॒वसि॑ भा॒गमु॑त्त॒मम्।आदिद् दा॒मान॑ꣳ सवित॒र्व्यूड्टर्णुषेऽनूची॒ना जी॑वि॒ता मानु॑षेभ्यः॥५४॥

दे॒वेभ्यः॑। हि। प्र॒थ॒मम्। य॒ज्ञिये॑भ्यः। अ॒मृ॒त॒त्वमित्य॑मृत॒ऽत्वम्। सु॒वसि॑। भा॒गम्। उ॒त्त॒ममित्यु॑त्ऽत॒मम् ॥ आत्। इत्। दा॒मान॑म्। स॒वि॒तः॒। वि। ऊ॒र्णु॒षे॒। अ॒नू॒ची॒ना। जी॒वि॒ता। मानु॑षेभ्यः ॥५४ ॥

Mantra without Swara
देवेभ्यो हि प्रथमँयज्ञियेभ्यो मृतत्वँ सुवसि भागमुत्तमम् । आदिद्दामानँ सवितर्व्यूर्णुषे नूचीना जीविता मानुषेभ्यः ॥

देवेभ्यः। हि। प्रथमम्। यज्ञियेभ्यः। अमृतत्वमित्यमृतऽत्वम्। सुवसि। भागम्। उत्तममित्युत्ऽतमम्॥ आत्। इत्। दामानम्। सवितः। वि। ऊर्णुषे। अनूचीना। जीविता। मानुषेभ्यः॥५४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(देवेभ्यः) विद्वद्भ्यः (हि) यतः (प्रथमम्) (यज्ञियेभ्यः) यज्ञसिद्धिकरेभ्यः (अमृतत्वम्) मोक्षस्य भावम् (सुवसि) प्रेरयसि (भागम्) भजनीयम् (उत्तमम्) श्रेष्ठम् (आत्) अनन्तरम् (इत्) एव (दामानम्) यो ददाति तम् (सवितः) सकलजगदुत्पादक (वि) (ऊर्णुषे) विस्तारयसि (अनूचीना) यैरन्वञ्चन्ति जानन्ति तानि (जीविता) जीवनहेतूनि कर्माणि (मानुषेभ्यः)॥५४॥
Essence
हे मनुष्याः! परमेश्वरस्यैव योगेन विद्वत्सङ्गेन च सर्वोत्तमसुखं मोक्षं प्राप्नुत॥५४॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे सवितर्जगदीश्वर! हि यज्ञियेभ्यो देवेभ्य उत्तमं प्रथमममृतत्वं भागं सुवसि मानुषेभ्यो आदिद्दामानमनूचीना जीविता च व्यूर्णुषे तस्मादस्माभिरुपासनीयोऽसि॥५४॥