Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 53

97 Mantra
33/53
Devata- विश्वेदेवा देवताः Rishi- सुहोत्र ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
विश्वे॑ देवाः शृणु॒तेम॒ꣳ हवं॑ मे॒ येऽअ॒न्तरि॑क्षे॒ यऽउप॒ द्यवि॒ ष्ठ।येऽअ॑ग्निजि॒ह्वाऽउ॒त वा॒ यज॑त्राऽआ॒सद्या॒स्मिन् ब॒र्हिषि॑ मादयध्वम्॥५३॥

विश्वे॑। दे॒वाः॒। शृ॒णु॒त॒। इम॑म्। हव॑म्। मे॒। ये। अ॒न्तरि॑क्षे। ये। उप॑। द्यवि॑। स्थ। ये। अ॒ग्नि॒जि॒ह्वा इत्य॑ग्निऽजि॒ह्वाः। उ॒त। वा। यज॑त्राः। आ॒स॒द्येत्या॑ऽस॒द्य। अ॒स्मिन्। ब॒र्हिषि॑। मा॒द॒य॒ध्व॒म् ॥५३ ॥

Mantra without Swara
विश्वे देवाः शृणुतेमँ हवम्मे येऽअन्तरिक्षे यऽउप द्यवि ष्ठ । येऽअग्निजिह्वाऽउत वा यजत्राऽआसद्यास्मिन्बर्हिषि मादयध्वम् ॥

विश्वे। देवाः। शृणुत। इमम्। हवम्। मे। ये। अन्तरिक्षे। ये। उप। द्यवि। स्थ। ये। अग्निजिह्वा इत्यग्निऽजिह्वाः। उत। वा। यजत्राः। आसद्येत्याऽसद्य। अस्मिन्। बर्हिषि। मादयध्वम्॥५३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(विश्वे) (देवाः) विद्वांसः (शृणुत) (इमम्) (हवम्) अध्ययनाध्यापनव्यवहारम् (मे) मम (ये) (अन्तरिक्षे) (ये) (उप) (द्यवि) प्रकाशे (स्थ) वेदितारो भवत (ये) (अग्निजिह्वाः) अग्निर्जिह्वावद् येषान्ते (उत) अपि (वा) (यजत्राः) सङ्गन्तारः पूजनीयाः (आसद्य) स्थित्वा (अस्मिन्) (बर्हिषि) सभायामासने वा (मादयध्वम्) हर्षयत॥५३॥
Essence
हे मनुष्याः! यूयं यावन्तो भूमावन्तरिक्षे प्रकाशे च पदार्थाः सन्ति, तान् बुद्ध्वा विदुषां सभां विधाय विद्यार्थिनां परीक्षा कृत्वा विद्यासुशिक्षे वर्द्धयित्वा स्वयमानन्दिता भूत्वाऽन्यान् सततमानन्दयत॥५३॥
Subject
पुनर्मनुष्यैः किं कर्त्तव्यमित्याह॥
Anvaya
हे विश्वे देवा! यूयं येऽन्तरिक्षे ये द्यविष्ठ येऽग्निजिह्वा उत वा यजत्राः पदार्थाः सन्ति, तेषां वेदितारः स्थ, म इमं हवमुपशृणुत। अस्मिन् बर्हिष्यासद्य मादयध्वम्॥५३॥