Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 52

97 Mantra
33/52
Devata- विश्वेदेवा देवताः Rishi- लुश ऋषिः Chhand- निचृत त्रिष्टुप् Swara- धैवतः
Mantra with Swara
विश्वे॑ऽअ॒द्य म॒रुतो॒ विश्व॑ऽऊ॒ती विश्वे॑ भवन्त्व॒ग्नयः॒ समि॑द्धाः।विश्वे॑ नो दे॒वाऽअव॒सा ग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो॑ऽअ॒स्मै॥५२॥

विश्वे॑। अ॒द्य। म॒रुतः॑। विश्वे॑। ऊ॒ती। विश्वे॑। भ॒व॒न्तु॒। अ॒ग्नयः॑। समि॑द्धा॒ इति॒ सम्ऽइ॑द्धाः ॥ विश्वे॑। नः॒॑। दे॒वाः। अव॑सा। आ। ग॒म॒न्तु॒। विश्व॑म्। अ॒स्तु॒। द्रवि॑णम्। वाजः॑। अ॒स्माऽइत्य॒स्मै ॥५२ ॥

Mantra without Swara
विश्वेऽअद्य मरुतो विश्वऽऊती विश्वे भवन्त्वग्नयः समिद्धाः । विश्वे नो देवाऽअवसा गमन्तु विश्वमस्तु द्रविणँवाजो अस्मे ॥

विश्वे। अद्य। मरुतः। विश्वे। ऊती। विश्वे। भवन्तु। अग्नयः। समिद्धा इति सम्ऽइद्धाः॥ विश्वे। नः। देवाः। अवसा। आ। गमन्तु। विश्वम्। अस्तु। द्रविणम्। वाजः। अस्माऽइत्यस्मै॥५२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(विश्वे) सर्वे (अद्य) (मरुतः) मरणधर्माणो मनुष्याः (विश्वे) सर्वे (ऊती) रक्षणादिक्रियया (विश्वे) (भवन्तु) (अग्नयः) पावकाः (समिद्धाः) प्रदीप्ताः (विश्वे) (नः) अस्मानस्माकं वा (देवाः) विद्वांसः (अवसा) रक्षणाद्येन सह (आ) समन्तात् (गमन्तु) प्राप्नुवन्तु (विश्वम्) सर्वम् (अस्तु) (द्रविणम्) धनम् (वाजः) अन्नम् (अस्मै) मनुष्याय॥५२॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्यादृशं सुखं स्वार्थमेष्टव्यं तादृशमन्यार्थं चात्र ये विद्वांसो भवेयुस्ते स्वयमधर्माचरणात् पृथग् भूत्वाऽन्यानपि तादृशान् कुर्युः॥५२॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे राजादयो मनुष्या! अद्य यथा विश्वे भवन्तो विश्वे मरुतो विश्वे समिद्धा अग्नय ऊती रक्षका नो भवन्तु, विश्वे देवा अवसा सह नोऽस्मानागमन्तु, तथा विश्वं द्रविणं वाजश्चास्मा अस्तु॥५२॥