Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 51

97 Mantra
33/51
Devata- विश्वेदेवा देवताः Rishi- कूर्म ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ॒र्वाञ्चो॑ऽअ॒द्या भ॑वता यजत्रा॒ऽआ वो॒ हार्दि॒ भय॑मानो व्ययेयम्। त्राध्वं॑ नो देवा नि॒जुरो॒ वृक॑स्य॒ त्राध्वं॑ क॒र्त्ताद॑व॒पदो॑ यजत्राः५१॥

अ॒र्वाञ्चः॑। अ॒द्य। भ॒व॒त॒। य॒ज॒त्राः॒। आ। वः॒। हार्दि। भय॑मानः। व्य॒ये॒य॒म् ॥ त्राध्व॑म्। नः॒। दे॒वाः॒। नि॒जुर॒ऽइति॑ नि॒जुरः॑। वृक॑स्य। त्राध्व॑म्। क॒र्त्तात्। अ॒व॒पद॒ इत्य॑व॒ऽपदः॑। य॒ज॒त्राः॒ ॥५१ ॥

Mantra without Swara
अर्वाञ्चोऽअद्या भवता यजत्रा आ वो हार्दि भयमानो व्ययेयम् । त्राध्वन्नो देवा निजुरो वृकस्य त्राध्वङ्कर्तादवपदो यजत्राः ॥

अर्वाञ्चः। अद्य। भवत। यजत्राः। आ। वः। हार्दि। भयमानः। व्ययेयम्॥ त्राध्वम्। नः। देवाः। निजुरऽइति निजुरः। वृकस्य। त्राध्वम्। कर्त्तात्। अवपद इत्यवऽपदः। यजत्राः॥५१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अर्वाञ्चः) अस्मदभिमुखाः (अद्य) अत्र निपातस्य च [अ॰६.३.१३६] इति दीर्घः। (भवत) अत्र संहितायाम् [अ॰६.३.११४] इति दीर्घः। (यजत्राः) सङ्गतिकर्त्तारः (आ) (वः) युष्माकम् (हार्दि) हृदि भवं मनः (भयमानः) भयं प्राप्नुवन्। अत्र व्यत्ययेन शप्। (व्ययेयम्) प्राप्नुयाम् (त्राध्वम्) रक्षत (नः) अस्मान् (देवाः) विद्वांसः (निजुरः) हिंसकस्य (वृकस्य) स्तेनस्य व्याघ्रस्य वा सकाशात् (त्राध्वम्) (कर्त्तात्) कूपात् (अवपदः) यत्राऽवपद्यन्ते ततः (यजत्राः) विदुषां सत्कर्त्तारः॥५१॥
Essence
प्रजापुरुषै राजजना एवं प्रार्थनीयाः। हे पूज्या राजपुरुषा विद्वांसो! यूयं सदैवास्मदविरोधिनः कपटादिरहिता भयनिवारका भवत। चोरव्याघ्रादिभ्यो मार्गादिशोधनेन गर्त्तादिभ्यश्चास्मान् रक्षत॥५१॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे यजत्रा देवा! यूयमद्यार्वाञ्चो भवत भयमानोऽहं वो हार्दि आव्ययेयं नो निजुरो वृकस्य सकाशात् त्राध्वम्। हे यजत्राः! यूयमवपदः कर्त्तादस्मान् त्राध्वम्॥५१॥