Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 50

97 Mantra
33/50
Devata- महेन्द्रो देवता Rishi- प्रगाथ ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः॑। यः शꣳस॑ते स्तुव॒ते धायि॑ प॒ज्रऽइन्द्र॑ज्येष्ठाऽअ॒स्माँ२ऽअ॑वन्तु दे॒वाः॥५०॥

अ॒स्मेऽइत्य॒स्मे। रु॒द्राः। मे॒हना॑। पर्व॑तासः। वृ॒त्र॒हत्य॒ इति॑ वृत्र॒ऽहत्ये॑। भर॑हूता॒विति॒ भर॑ऽहूतौ। स॒जोषा॒ इति॑ स॒ऽजोषाः॑ ॥ यः। शꣳस॑ते। स्तु॒व॒ते। धायि॑। प॒ज्रः। इन्द्र॑ज्येष्ठा॒ इतीन्द्र॑ऽज्येष्ठाः। अ॒स्मान्। अ॒व॒न्तु॒। दे॒वाः ॥५० ॥

Mantra without Swara
अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः । यः शँसते स्तुवते धायि पज्रऽइन्द्रज्येष्ठा अस्माँऽअवन्तु देवाः ॥

अस्मेऽइत्यस्मे। रुद्राः। मेहना। पर्वतासः। वृत्रहत्य इति वृत्रऽहत्ये। भरहूताविति भरऽहूतौ। सजोषा इति सऽजोषाः॥ यः। शꣳसते। स्तुवते। धायि। पज्रः। इन्द्रज्येष्ठा इतीन्द्रऽज्येष्ठाः। अस्मान्। अवन्तु। देवाः॥५०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अस्मे) अस्मासु (रुद्राः) शत्रून् रोदयन्ति ते (मेहना) धनादिसेचकाः। अत्राकारादेशः। (पर्वतासः) पर्वाण्युत्सवा विद्यन्ते येषान्ते। अत्र पर्वमरुद्भ्यां तबिति वार्त्तिकेन तप् प्रत्ययः। (वृत्रहत्ये) वृत्रस्य दुष्टस्य हत्ये हननाय (भरहूतौ) भरे सङ्ग्रामे हूतिराह्वानं तत्र (सजोषाः) समानप्रीतिसेवनाः (यः) नरः (शंसते) (स्तुवते) स्तौति। अत्र शब्विकरणः। (धायि) ध्रियते। अत्र लुङ्यडभावः। (पज्रः) प्रार्जितैश्वर्य्यः। पृषोदरादित्वादिष्टसिद्धिः। (इन्द्रज्येष्ठाः) इन्द्रः सभापतिर्ज्येष्ठो येषु ते (अस्मान्) (अवन्तु) रक्षन्तु (देवाः)॥५०॥
Essence
ये राजजनाः पदार्थस्तावकाः श्रेष्ठरक्षका दुष्टताडकाः सङ्ग्रामीया मेघवत्पालकाः प्रशंसनीयाः सन्ति ते सर्वैः सेवनीया॥५०॥
Subject
अथ राजपुरुषाः कीदृशाः स्युरित्याह॥
Anvaya
हे मनुष्याः! यः पज्रः याञ्छंसते स्तुवते येन च धनं धायि तमस्माँश्च येऽस्मे मेहना रुद्राः पर्वतासो वृत्रहत्ये भरहूतौ सजोषा इन्द्रज्येष्ठा देवा अवन्तु। ते युष्मानप्यवन्तु॥५०॥