Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 4

97 Mantra
33/4
Devata- अग्निर्देवता Rishi- विश्वरूप ऋषिः Chhand- निचृद्गायत्री Swara- षड्जः
Mantra with Swara
यु॒क्ष्वा हि दे॑व॒हूत॑माँ॒२ऽअश्वाँ॑२ऽअग्ने र॒थीरि॑व।नि होता॑ पू॒र्व्यः स॑दः॥४॥

यु॒क्ष्व। हि। दे॒व॒हूत॑मा॒निति॑ देव॒ऽहूत॑मान्। अश्वा॑न्। अ॒ग्ने॒। र॒थीरि॒वेति॑ र॒थीःऽइ॑व ॥ नि। होता॑। पू॒र्व्यः। स॒दः॒ ॥४ ॥

Mantra without Swara
युक्ष्वा हि देवहूतमाँऽअश्वाँ अग्ने रथीरिव । नि होता पूर्व्यः सदः ॥

युक्ष्व। हि। देवहूतमानिति देवऽहूतमान्। अश्वान्। अग्ने। रथीरिवेति रथीःऽइव॥ नि। होता। पूर्व्यः। सदः॥४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(युक्ष्व) योजय। अत्र द्व्यचोऽतस्तिङः [अ॰६.३.१३५] इति दीर्घः। (हि) खलु (देवहूतमान्) ये देवैर्विद्वद्भिर्हूयन्ते स्तूयन्ते तेऽतिशयितास्तान् (अश्वान्) आशुगामिनोऽग्न्यादीन् तुरङ्गान् वा (अग्ने) विद्वन्! (रथीरिव) यथा सारथिस्तथा। अत्र मत्वर्थे ईर् प्रत्ययः। (नि) नितराम् (होता) आदाता (पूर्व्यः) पूर्वैः कृतविद्यः (सदः) अत्राडभावः॥४॥
Essence
अत्रोपमालङ्कारः। यथा सुशिक्षितः सारथिरश्वैरनेकानि कार्य्याणि साध्नोति, तथा कृतविद्यो जनोऽग्न्यादिभिरनेकानि कार्याणि साध्नुयात्॥४॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हेअग्ने! त्वं रथीरिव देवहूतमानश्वान् युक्ष्व, होता पूर्व्यः सन् हि नि सदः॥४॥