Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 34

97 Mantra
33/34
Devata- सविता देवता Rishi- अगस्त्य ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
आ न॒ऽइडा॑भिर्वि॒दथे॑ सुश॒स्ति वि॒श्वान॑रः सवि॒ता दे॒वऽए॑तु।अपि॒ यथा॑ युवानो॒ मत्स॑था नो॒ विश्वं॒ जग॑दभिपि॒त्वे म॑नी॒षा॥३४॥

आ। नः॒। इडा॑भिः। वि॒दथे॑। सु॒श॒स्तीति॑ सुऽश॒स्ति। वि॒श्वान॑रः। स॒वि॒ता। दे॒वः। ए॒तु॒ ॥ अपि॑। यथा॑। यु॒वा॒नः॒। मत्स॑थ। नः॒। विश्व॑म्। जग॑त्। अ॒भि॒पि॒त्व इत्य॑भिऽपि॒त्वे। म॒नी॒षा ॥३४ ॥

Mantra without Swara
आ नऽइडाभिर्विदथे सुशस्ति विश्वानरः सविता देवऽएतु । अपि यथा युवानो मत्सथा नो विश्वञ्जगदभिपित्वे मनीषा ॥

आ। नः। इडाभिः। विदथे। सुशस्तीति सुऽशस्ति। विश्वानरः। सविता। देवः। एतु॥ अपि। यथा। युवानः। मत्सथ। नः। विश्वम्। जगत्। अभिपित्व इत्यभिऽपित्वे। मनीषा॥३४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(आ) समन्तात् (नः) अस्माकम् (इडाभिः) सुशिक्षिताभिर्वाग्भिः (विदथे) विज्ञापनीये व्यवहारे (सुशस्ति) शोभना शस्तिः प्रशंसा यस्मिंस्तत् (विश्वानरः) विश्वेषां नायकः (सविता) सूर्य इव भासमानः (देवः) दिव्यगुणः (एतु) प्राप्नोतु (अपि) (यथा) (युवानः) प्राप्तयौवना ब्रह्मचर्येणाधीतविद्याः (मत्सथ) आनन्दत। अत्र संहितायाम् [अ॰६.३.११४] इति दीर्घः। (नः) अस्माकम् (विश्वम्) समग्रम् (जगत्) जङ्गमं पुत्रगवादिकम् (अभिपित्वे) आभिमुख्यगमने (मनीषा) मेधा॥३४॥
Essence
अत्रोपमावाचकलुप्तोपमालङ्कारौ। ये सूर्यवद्विद्यया प्रकाशात्मानः शरीरात्मभ्यां प्राप्तयौवनाः सुशिक्षिता जितेन्द्रियाः सुशीला भवन्ति, ते सर्वानुपदेशेन विज्ञापयितुं शक्नुवन्ति॥३४॥
Subject
अथोपदेशकाः किं कुर्युरित्याह॥
Anvaya
हे युवानो! यथा विश्वानरो देवः सवितेडाभिर्विदथे सुशस्ति नो विश्वं जगदैतु, तथाऽभिपित्वे यूयं मत्सथ या नो मनीषा तामपि शोधयत॥३४॥