Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 28

97 Mantra
33/28
Devata- इन्द्रो देवता Rishi- गौरिवीतिर्ऋषिः Chhand- भुरिक् पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
आ तत्त॑ऽइन्द्रा॒यवः॑ पनन्ता॒भि यऽऊ॒र्वं गोम॑न्तं॒ तितृ॑त्सान्।स॒कृ॒त्स्वं] ये पु॑रुपु॒त्रां म॒ही स॒हस्र॑धारां बृह॒तीं दुदु॑क्षन्॥२८॥

आ। तत्। ते॒। इ॒न्द्र॒। आ॒यवः॑। प॒न॒न्त॒। अ॒भि। ये। ऊ॒र्वम्। गोम॑न्त॒मिति॒ गोऽम॑न्तम्। तितृ॑त्सान् ॥ स॒कृ॒त्स्व᳕मिति॑ सकृ॒त्ऽस्व᳕म्। ये। पु॒रु॒पु॒त्रामिति॑ पुरुपु॒त्राम्। म॒हीम्। स॒हस्र॑धारा॒मिति॑ स॒हस्र॑ऽधाराम्। बृ॒ह॒तीम्। दुदु॑क्षन्। दुधु॑क्ष॒न्निति॒ दुधु॑क्षन् ॥२८ ॥

Mantra without Swara
आ तत्तऽइन्द्रायवः पनन्ताभि यऽऊर्वङ्गोमन्तन्तितृत्सान् । सकृत्स्वँये पुरुपुत्राम्महीँ सहस्रधाराम्बृहतीन्दुदुक्षन् ॥

आ। तत्। ते। इन्द्र। आयवः। पनन्त। अभि। ये। ऊर्वम्। गोमन्तमिति गोऽमन्तम्। तितृत्सान्॥ सकृत्स्वमिति सकृत्ऽस्वम्। ये। पुरुपुत्रामिति पुरुपुत्राम्। महीम्। सहस्रधारामिति सहस्रऽधाराम्। बृहतीम्। दुदुक्षन्। दुधुक्षन्निति दुधुक्षन्॥२८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(आ) (तत्) राजकर्म (ते) तव (इन्द्र) राजन्! (आयवः) ये सत्यं यन्ति ते मनुष्याः प्रजाः। आयव इति मनुष्यनामसु पठितम्॥ (निघं॰२।३) (पनन्त) प्रशंसेयुः (अभि) आभिमुख्ये (ते) (ऊर्वम्) हिंसकम् (गोमन्तम्) दुष्टा गाव इन्द्रियाणि यस्य तम् (तितृत्सान्) तर्दितुं हिंसितुमिच्छेयुः। लेट्। (सकृत्स्वम्) या सकृदेकवारं सूते ताम् (ये) (पुरुपुत्राम्) बहवोऽन्नादिव्यक्तिमन्तः पुत्रा यस्यास्ताम् (महीम्) महतीं भूमिम् (सहस्रधाराम्) सहस्रं धारा हिरण्यादयो यस्यान्तां यद्वा या सहस्रमसङ्ख्यातं प्राणिजातं धरति (बृहतीम्) विस्तीर्णाम् (दुदुक्षन्) दोग्धुमिच्छेयुः। अत्र वर्णव्यत्ययेन धस्य दः॥२८॥
Essence
ये राजभक्ता दुष्टहिंसका एकवारे बहुफलपुष्पप्रदां सर्वधारिकां भूमिं दोग्धुं समर्थास्स्युस्तेराजकार्य्याणि कर्त्तुमर्हेयुः॥२८॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे इन्द्र! य आयवः सकृत्स्वं पुरुपुत्रां सहस्रधारां बृहतीं महीं दुदुक्षन्, ये गोमन्तमूर्वमभितितृत्सान् ये च ते तदापनन्त तान् त्वं सततमुन्नय॥२८॥