Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 27

97 Mantra
33/27
Devata- इन्द्रो देवता Rishi- अगस्त्य ऋषिः Chhand- विराट् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
कुत॒स्त्वमि॑न्द्र॒ माहि॑नः॒ सन्नेको॑ यासि सत्पते॒ किं त॑ऽइ॒त्था।सं पृ॑च्छसे समरा॒णः शु॑भा॒नैर्वो॒चेस्तन्नो॑ हरिवो॒ यत्ते॑ऽअ॒स्मे।म॒हाँ२ऽ इन्द्रो॒ यऽओज॑सा।क॒दा च॒न स्त॒रीर॑सि॒। क॒दा च॒न प्रयु॑च्छसि॥२७॥

कुतः॑। त्वम्। इ॒न्द्र॒। माहि॑नः। सन्। एकः॑। या॒सि॒। स॒त्प॒त॒ इति॑ सत्ऽपते। किम्। ते॒। इ॒त्था ॥ सम्। पृ॒च्छ॒से॒। स॒म॒रा॒ण इति॑ सम्ऽअरा॒णः। शु॒भा॒नैः। वोचेः। तत्। नः॒। ह॒रि॒व॒ इति॑ हरिऽवः। यत्। ते॒। अ॒स्मेऽइत्य॒स्मे ॥२७ ॥

Mantra without Swara
कुतस्त्वमिन्द्र माहिनः सन्नेको यासि सत्पते किन्तऽइत्था । सम्पृच्छसे समराणः शुभानैर्वोचेस्तन्नो हरिवो यत्तेऽअस्मे । महाँऽइन्द्रो यऽओजसा कदा चन स्तरीरसि कदा चन प्रयुच्छसि॥

कुतः। त्वम्। इन्द्र। माहिनः। सन्। एकः। यासि। सत्पत इति सत्ऽपते। किम्। ते। इत्था॥ सम्। पृच्छसे। समराण इति सम्ऽअराणः। शुभानैः। वोचेः। तत्। नः। हरिव इति हरिऽवः। यत्। ते। अस्मेऽइत्यस्मे॥२७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(कुतः) कस्मात् (त्वम्) (इन्द्र) सभेश! (माहिनः) पूज्यमानो महत्त्वेन युक्तः (सन्) (एकः) असहायः (यासि) गच्छसि (सत्पते) सतः सत्यस्य व्यवहारस्य सतां पुरुषाणां वा पालक! (किम्) (ते) तव (इत्था) अस्माद्धेतोः (सम्) (पृच्छसे) पृच्छ। लेट्। (समराणः) सम्यग् गच्छन् (शुभानैः) मङ्गलमयैर्वचनैस्सह (वोचे) वदेः (तत्) एकाकिकारणम् (नः) अस्मान् (हरिवः) प्रशस्ता हरयो हरणशीला अश्वा विद्यन्ते यस्य तत्सम्बुद्धौ (यत्) यतः (ते) तव (अस्मे) वयम्॥२७॥
Essence
राजप्रजापुरुषैः सभाध्यक्ष एवं वक्तव्यः—हे सभापते! भवताऽसहायेन किमपि राजकार्य्यं न कर्त्तव्यम्। किन्तु सज्जनरक्षणे, दुष्टताडने, चास्मदादिसहाययुक्तेन सदैव स्थातव्यम्। शुभाचरण-युक्तेनास्मदादिशिष्टसम्मत्या मृदुवचनैश्च सर्वाः प्रजाः शासनीयाः॥२७॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे सत्पते इन्द्र! माहिनस्त्वमेकः सन् कुतो यासि? किन्त इत्था? हे हरिवो! यदस्मे ते तस्मात् समराणस्त्वन्नः सम्पृच्छसे शुभानैस्तद्वोचेश्च॥२७॥