Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 26

97 Mantra
33/26
Devata- इन्द्रो देवता Rishi- विश्वामित्र ऋषिः Chhand- भुरिक् पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
इन्द्रो॑ वृ॒त्रम॑वृणो॒च्छर्द्ध॑नीतिः॒ प्र मा॒यिना॑ममिना॒द्वर्प॑णीतिः।अह॒न् व्यꣳसमु॒शध॒ग्वने॑ष्वा॒विर्धेना॑ऽअकृणोद्रा॒म्याणा॑म्॥२६॥

इन्द्रः॑। वृ॒त्रम्। अ॒वृ॒णो॒त्। शर्द्ध॑नीति॒रिति॒ शर्द्ध॑ऽनीतिः। प्र। मा॒यिना॑म्। अ॒मि॒ना॒त्। वर्प॑णीतिः। वर्प॑नीति॒रिति॒ वर्प॑ऽनीतिः ॥ अह॑न्। व्य॑ꣳस॒मिति॒ विऽअ॑ꣳसम्। उ॒शध॑क्। वने॑षु। आ॒विः। धेनाः॑ अ॒कृ॒णो॒त्। रा॒म्याणा॑म् ॥२६ ॥

Mantra without Swara
इन्द्रो वृत्रमवृणोच्छर्धनीतिः प्र मायिनाममिनाद्वर्पणीतिः । अहन्व्यँसमुशधग्वनेष्वाविर्धेनाऽअकृणोद्राम्याणाम् ॥

इन्द्रः। वृत्रम्। अवृणोत्। शर्द्धनीतिरिति शर्द्धऽनीतिः। प्र। मायिनाम्। अमिनात्। वर्पणीतिः। वर्पनीतिरिति वर्पऽनीतिः॥ अहन्। व्यꣳसमिति विऽअꣳसम्। उशधक्। वनेषु। आविः। धेनाः अकृणोत्। राम्याणाम्॥२६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(इन्द्रः) सूर्य इव प्रतापी सभेशः (वृत्रम्) दुष्टं शत्रुं प्रकाशावरकं मेघमिव धर्मावरकम् (अवृणोत्) युद्धाय वृणुयात् (शर्द्धनीतिः) शर्द्धस्य बलस्य नीतिर्नयनं प्रापणं यस्य (प्र) (मायिनाम्) माया कुत्सिता प्रज्ञा विद्यते येषान्तान्। अत्र कर्मणि षष्ठी (अमिनात्) हिंस्यात् (वर्पणीतिः) वर्पाणां नानाविधानां रूपाणां नीतिः प्राप्तिर्यस्य सः (अहन्) हन्यात् (व्यंसम्) विगता अंसा भुजमूलानि यस्य तम् (उशधक्) य उशन्ति परस्वं कामयन्ति तान् दहति सः (वनेषु) स्थितं तस्करम् (आविः) प्रादुर्भूते (धेनाः) वाणीः (अकृणोत्) कुर्यात् (राम्याणाम्) रमयन्ति आनन्दयन्ति तेषाम्॥२६॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। ये सूर्य्यवत्सुशिक्षिता वाचः प्रकटयन्ति, अग्निर्वनानीव दुष्टान् शत्रून् दहन्ति, दिनं रात्रिमिव छलकापट्याविद्यान्धकारादीन् निवर्त्तयन्ति, बलमाविष्कुर्वन्ति, ते सुप्रतिष्ठिता राजजना भवन्ति॥२६॥
Subject
राजपुरुषाः कीदृशाः स्युरित्याह॥
Anvaya
शर्द्धनीतिर्वर्पनीतिरुशधगिन्द्रो वृत्रमवृणोत् मायिनां प्रामिणात् वनेषु व्यंसमहन् राम्याणां धेना आविरकृणोत्, स एव राजा भवितुं योग्यः॥२६॥