Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 24

97 Mantra
33/24
Devata- इन्द्रो देवता Rishi- त्रिशोक ऋषिः Chhand- निचृद्गायत्री Swara- षड्जः
Mantra with Swara
बृ॒हन्निदि॒ध्मऽए॑षां॒ भूरि॑ श॒स्तं पृ॒थुः स्वरुः॑।येषा॒मिन्द्रो॒ युवा॒ सखा॑॥२४॥

बृ॒हन्। इत्। इ॒ध्मः। ए॒षा॒म्। भूरि॑। श॒स्तम्। पृ॒थुः। स्वरुः॑ ॥ येषा॑म्। इन्द्रः॑। युवा॑। सखा॑ ॥२४ ॥

Mantra without Swara
बृहन्निदिध्मऽएषाम्भूरि शस्तम्पृथुः स्वरुः । येषामिन्द्रो युवा सखा ॥

बृहन्। इत्। इध्मः। एषाम्। भूरि। शस्तम्। पृथुः। स्वरुः॥ येषाम्। इन्द्रः। युवा। सखा॥२४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(बृहन्) महान् (इत्) एव (इध्मः) प्रदीप्तः (एषाम्) मनुष्याणाम् (भूरि) बहु (शस्तम्) स्तुत्यं कर्म (पृथुः) विस्तीर्णः (स्वरुः) प्रतापकः (येषाम्) (इन्द्रः) परमैश्वर्य्यवान् परमात्मा (युवा) प्राप्तयौवनः (सखा) मित्रम्॥२४॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यस्योत्तमः परमेश्वरः सखा भवेत्, स यथाऽस्मिन् ब्रह्माण्डे सूर्य्यः प्रतापयुक्तोऽस्ति, तथा प्रतापयुक्तः स्यात्॥२४॥
Subject
मनुष्यः परमेश्वरमेव मित्रं कुर्यादित्याह॥
Anvaya
येषामिध्मः पृथुः स्वरुर्युवा बृहन्निन्द्रः सखाऽस्त्येषामिद् भूरि शस्तं भवति॥२४॥