Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 23

97 Mantra
33/23
Devata- इन्द्रो देवता Rishi- सुचीक ऋषिः Chhand- भुरिक् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
प्र वो॑ म॒हे मन्द॑माना॒यान्ध॒सोऽर्चा॑ वि॒श्वान॑राय विश्वा॒भुवे॑।इन्द्र॑स्य॒ यस्य॒ सुम॑ख॒ꣳ सहो॒ महि॒ श्रवो॑ नृ॒म्णं च॒ रोद॑सी सप॒र्य्यतः॑॥२३॥

प्र। वः॒। म॒हे। मन्द॑मानाय। अन्ध॑सः। अर्चा॑। वि॒श्वान॑राय। वि॒श्वा॒भुवे॑। वि॒श्वा॒भुव इति॑ विश्व॒ऽभुवे॑ ॥ इन्द्र॑स्य। यस्य॑। सुम॑ख॒मिति॒ सुऽम॑खम्। सहः॑। महि॑। श्रवः॑। नृ॒म्णम्। च॒। रोद॑सी॒ऽइति॒ रोद॑सी। स॒प॒र्य्यतः॑ ॥२३ ॥

Mantra without Swara
प्र वो महे मन्दमानायान्धसोर्चा विश्वानराय विश्वाभुवे । इन्द्रस्य यस्य सुमखँ सहो महि श्रवो नृम्णञ्च रोदसी सपर्यतः ॥

प्र। वः। महे। मन्दमानाय। अन्धसः। अर्चा। विश्वानराय। विश्वाभुवे। विश्वाभुव इति विश्वऽभुवे॥ इन्द्रस्य। यस्य। सुमखमिति सुऽमखम्। सहः। महि। श्रवः। नृम्णम्। च। रोदसीऽइति रोदसी। सपर्य्यतः॥२३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(प्र) (वः) युष्मभ्यम् (महे) महते (मन्दमानाय) आनन्दस्वरूपाय (अन्धसः) अन्नादेः। अत्र विभक्तिव्यत्ययः। (अर्च) सत्कुरुत। अत्र वचनव्यत्ययोः द्व्यचोऽतस्तिङः [अ॰६.३.१३५] इति दीर्घश्च। (विश्वानराय) विश्वे नरा नायका यस्मात् तस्मै (विश्वाभुवे) यो विश्वे भवति प्राप्नोति विश्वाभूर्यस्य वा विश्वं भवति यस्मादिति वा तस्मै। अत्रोभयत्र संहितायाम् [अ॰६.३.११४] इति दीर्घः। (इन्द्रस्य) परमेश्वरस्य (यस्य) (सुमखम्) शोभना मखा यज्ञा यस्मात् तम् (सहः) बलम् (महि) महत् (श्रवः) यशः (नृम्णम्) धनम् (च) (रोदसी) द्यावापृथिव्यौ (सपर्य्यतः) सेवेते॥२३॥
Essence
हे मनुष्याः! येनोत्पादितं धनं बलं च सर्वैः सेव्यते, स एव सर्वाध्यक्ष आनन्दमयः सर्वव्याप्त ईश्वरो युष्माभिः पूज्यः प्रार्थनीयश्च, स युष्मभ्यं धनादिजन्यं सुखं दास्यति॥२३॥
Subject
मनुष्यैरीश्वर एव पूज्य इत्याह॥
Anvaya
हे मनुष्य! त्वं रोदसी यस्येन्द्रस्य सुमखं नृम्णं सहो महि श्रवश्च सपर्य्यतस्तस्मै विश्वानराय महे मन्दमानाय विश्वाभुवे प्रार्च स वोऽन्धसः सुखं ददातु॥२३॥