Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 22

97 Mantra
33/22
Devata- इन्द्रो देवता Rishi- विश्वामित्र ऋषिः Chhand- भुरिक् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
आ॒तिष्ठ॑न्तं॒ परि॒ विश्वे॑ऽअभूष॒ञ्छ्रियो॒ वसा॑नश्चरति॒ स्वरो॑चिः।म॒हत्तद् वृष्णो॒ऽअसु॑रस्य॒ नामा वि॒श्वरू॑पोऽअ॒मृता॑नि तस्थौ॥२२॥

आ॒तिष्ठ॑न्त॒मित्या॒ऽतिष्ठ॑न्तम्। परि॑। विश्वे॑। अ॒भू॒ष॒न्। श्रियः॑। वसा॑नः। च॒र॒ति॒। स्वरो॑चि॒रिति॒ स्वऽरो॑चिः ॥ म॒हत्। तत्। वृष्णः॑। असु॑रस्य। नाम॑। आ। वि॒श्वऽरू॑प॒ इति॒ वि॒श्वऽरू॑पः। अ॒मृता॑नि। त॒स्थौ॒ ॥२२ ॥

Mantra without Swara
आतिष्ठन्तम्परि विश्वेऽअभूषञ्छ्रियो वसानश्चरति स्वरोचिः । महत्तद्वृष्णोऽअसुरस्य नामा विश्वरूपोऽअमृतानि तस्थौ ॥

आतिष्ठन्तमित्याऽतिष्ठन्तम्। परि। विश्वे। अभूषन्। श्रियः। वसानः। चरति। स्वरोचिरिति स्वऽरोचिः॥ महत्। तत्। वृष्णः। असुरस्य। नाम। आ। विश्वऽरूप इति विश्वऽरूपः। अमृतानि। तस्थौ॥२२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(आतिष्ठन्तम्) समन्तात् स्थिरम् (परि) सर्वतः (विश्वे) सर्वे (अभूषन्) भूषयेयुः (श्रियः) धनानि शोभा वा (वसानः) स्वीकुर्वाणः (चरति) (स्वरोचिः) स्वकीया रोचिर्दीप्तिर्यस्य सः (महत्) (तत्) (वृष्णः) वर्षकस्य (असुरस्य) हिंसकस्य विद्युदाख्यस्याग्नेः (नाम) संज्ञा (आ) (विश्वरूपः) विश्वं समग्रं रूपं यस्य सः (अमृतानि) नाशरहितानि वस्तूनि। अत्र सप्तम्यर्थे षष्ठी। (तस्थौ) तिष्ठति॥२२॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यतोऽयं विद्युदाख्योऽग्निः सर्वपदार्थस्थोऽपि न किञ्चित् प्रकाशयति, तस्मादस्यासुरेति नाम। य एतद्विद्यां जानन्ति ते सर्वतः सुभूषिता भवन्ति॥२२॥
Subject
अथ विद्युदग्निः कीदृश इत्याह॥
Anvaya
हे विद्वांसो! विश्वे भवन्तो यथा श्रियो वसानः स्वरोचिर्विश्वरूपोऽग्निश्चरत्यमृतान्यातस्थौ तथैतमातिष्ठन्तं पर्यभूषन्। यद्वृष्णोऽसुरस्यास्य महत्तन्नामास्ति तेन सर्वाणि कार्य्याण्यलङ् कुरुत॥२२॥