Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 17

97 Mantra
33/17
Devata- सविता देवता Rishi- लुशो धानाक ऋषिः Chhand- भुरिक् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
म॒होऽअ॒ग्नेः स॑मिधा॒नस्य॒ शर्म॒ण्यना॑गा मि॒त्रे वरु॑णे स्व॒स्तये॑। श्रेष्ठे॑ स्याम सवि॒तुः सवी॑मनि॒ तद्दे॒वाना॒मवो॑ऽअ॒द्या वृ॑णीमहे॥१७॥

म॒हः। अ॒ग्नेः। स॒मि॒धा॒नस्येति॑ सम्ऽइधा॒नस्य॑। शर्म॑णि। अना॑गाः। मि॒त्रे। वरु॑णे। स्व॒स्तये॑ ॥ श्रेष्ठे॑। स्या॒म॒। स॒वि॒तुः। सवी॑मनि। तत्। दे॒वाना॑म्। अवः॑। अ॒द्य। वृ॒णी॒म॒हे॒ ॥१७ ॥

Mantra without Swara
महोऽअग्नेः समिधानस्य शर्मण्यनागा मित्रे वरुणे स्वस्तये । श्रेष्ठे स्याम सवितुः सवीमनि तद्देवानामवोऽअद्या वृणीमहे ॥

महः। अग्नेः। समिधानस्येति सम्ऽइधानस्य। शर्मणि। अनागाः। मित्रे। वरुणे। स्वस्तये॥ श्रेष्ठे। स्याम। सवितुः। सवीमनि। तत्। देवानाम्। अवः। अद्य। वृणीमहे॥१७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(महः) महतः (अग्नेः) विज्ञानवतः सभापतेः (समिधानस्य) प्रकाशमानस्य (शर्मणि) आश्रये (अनागाः) अनपराधिनः। अत्र सुपां सुलुग् [अ॰७.१.३९] इति जसः स्थाने सुः। (मित्रे) सुहृदि (वरुणे) स्वीकर्त्तव्ये जने (स्वस्तये) सुखाय (श्रेष्ठे) उत्तमे (स्याम) भवेम (सवितुः) सकलजगदुत्पादकस्य परमेश्वरस्य (सवीमनि) आज्ञायाम् (तत्) वेदोक्तम् (देवानाम्) विदुषाम् (अवः) रक्षणादिकम् (अद्य) अस्मिन् दिवसे। अत्र निपातस्य च [अ॰६.३.१३६] इति दीर्घः। (वृणीमहे) स्वीकुर्महे॥१७॥
Essence
धार्मिकविद्वद्भी राजपुरुषैरधर्मं विहाय धर्मे प्रवर्त्तित्वा परमेश्वरस्य सृष्टौ विविधा रचना दृष्ट्वा स्वेषामन्येषां च रक्षणं विधायेश्वरस्य धन्यवादा वाच्याः॥१७॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
वयं राजपुरुषा महः समिधानस्याग्नेः शर्मणि श्रेष्ठे मित्रे वरुणे चानागाः स्याम। अद्य सवितुः सवीमनि वर्त्तमानाः स्वस्तये देवानां तदवो वृणीमहे॥१७॥