Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 14

97 Mantra
33/14
Devata- विद्वांसो देवता Rishi- वसिष्ठ ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
त्वेऽअ॑ग्ने स्वाहुत प्रि॒यासः॑ सन्तु सू॒रयः॑।य॒न्तारो॒ ये म॒घवा॑नो॒ जना॑नामू॒र्वान् दय॑न्त॒ गोना॒म्॥१४॥

त्वेऽइति॒ त्वे। अ॒ग्ने॒। स्वा॒हु॒तेति॑ सुऽआहुत। प्रि॒यासः॑। स॒न्तुः॒। सू॒रयः॑ ॥ य॒न्तारः॑ ये। म॒घवा॑न॒ इति॑ म॒घऽवा॑नः। जना॑नाम्। ऊ॒र्वान्। दय॑न्त। गोना॑म् ॥१४ ॥

Mantra without Swara
त्वेऽअग्ने स्वाहुत प्रियासः सन्तु सूरयः । यन्तारो ये मघवानो जनानामूर्वान्दयन्त गोनाम् ॥

त्वेऽइति त्वे। अग्ने। स्वाहुतेति सुऽआहुत। प्रियासः। सन्तुः। सूरयः॥ यन्तारः ये। मघवान इति मघऽवानः। जनानाम्। ऊर्वान्। दयन्त। गोनाम्॥१४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(त्वे) तव (अग्ने) विद्वन्! (स्वाहुत) सुष्ठ्वादत्तविद्य! (प्रियासः) प्रीतिकराः (सन्तु) (सूरयः) विद्वांसः (यन्तारः) निगृहीतेन्द्रियाः (ये) (मघवानः) बहुधनयुक्ताः (जनानाम्) मनुष्याणां मध्ये (ऊर्वान्) हिंसकान् (दयन्त) दयन्ते घ्नन्ति (गोनाम्) पृथिवीधेन्वादीनाम्। अत्र गोः पादान्ते (अष्टा॰७।१।५०) इति नुडागमः॥१४॥
Essence
हे मनुष्याः! यथा विद्वांसोऽग्न्यादिपदार्थविद्यां गृहीत्वा विद्वत्प्रिया भूत्वा दुष्टान् हत्वा गवादीन् रक्षित्वा मनुष्यप्रिया भवन्ति, तथा यूयमपि भवत॥१४॥
Subject
विद्वद्वदितरजनैर्वर्त्तितव्यमित्याह॥
Anvaya
हे स्वाहुताऽग्ने! ये जनानां मध्ये वीरा यन्तारो मघवानो गोनामूर्वान् दयन्त ते सूरयस्त्वे प्रियासः सन्तु॥१४॥