Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 13

97 Mantra
33/13
Devata- विश्वेदेवा देवताः Rishi- भरद्वाज ऋषिः Chhand- भुरिक् पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
त्वा हि म॒न्द्रत॑ममर्कशो॒कैर्व॑वृ॒महे॒ महि॑ नः॒ श्रोष्य॑ग्ने।इन्द्रं॒ न त्वा॒ शव॑सा दे॒वता॑ वा॒युं पृ॑णन्ति॒ राध॑सा॒ नृत॑माः॥१३॥

त्वाम्। हि। म॒न्द्रत॑म॒मिति॑ म॒न्द्रऽत॑मम्। अ॒र्क॒शो॒कैरित्य॑र्कऽशो॒कैः। व॒वृ॒महे॑। महि॑। नः॒। श्रोषि॑। अ॒ग्ने॒ ॥ इन्द्र॑म्। न। त्वा॒। शव॑सा। दे॒वता॑। वा॒युम्। पृ॒ण॒न्ति॒। राध॑सा। नृत॑मा॒ इति॒ नृऽत॑माः ॥१३ ॥

Mantra without Swara
त्वाँ हि मन्द्रतममर्कशोकैर्ववृमहे महि नः श्रोष्यग्ने । इन्द्रन्न त्वा शवसा देवता वायुम्पृणन्ति राधसा नृतमाः ॥

त्वाम्। हि। मन्द्रतममिति मन्द्रऽतमम्। अर्कशोकैरित्यर्कऽशोकैः। ववृमहे। महि। नः। श्रोषि। अग्ने॥ इन्द्रम्। न। त्वा। शवसा। देवता। वायुम्। पृणन्ति। राधसा। नृतमा इति नृऽतमाः॥१३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(त्वाम्) (हि) यतः (मन्द्रतमम्) अतिशयेन प्रशंसादिसत्कृतम् (अर्कशोकैः) अर्कः सूर्य्य इव शोकाः प्रकाशा येषान्तैः (ववृमहे) स्वीकुर्महे (महि) महद्वचः (नः) अस्माकं ब्रह्मचर्य्यादिसत्कर्मसु प्रवृत्तानाम् (श्रोषि) शृणोषि। अत्र विकरणस्य लुक्। (अग्ने) अग्निरिव वर्त्तमान विद्वन्! (इन्द्रम्) सूर्य्यम् (न) इव (त्वा) त्वाम् (शवसा) बलेन (देवता) दिव्यगुणयुक्तम्। अत्र सुपो लुक्। (वायुम्) वातमिव (पृणन्ति) पिपुरति (राधसा) धनेन (नृतमाः) येऽतिशयेन नेतारः श्रेष्ठा जनाः॥१३॥
Essence
अत्रोपमावाचकलुप्तोपमालङ्कारौ। ये दुःखानि सोढ्वा सूर्यवत्तेजस्विनो वायुवद् बलिष्ठा विद्यासुशिक्षे गृह्णन्ति, ते मेघेन सूर्य इव सर्वेषामानन्दकराः पुरुषोत्तमा जायन्ते॥१३॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे अग्ने! हि यतो नो महि श्रोषि तस्मान्मन्द्रतमं त्वामर्कशोकैर्वयं ववृमहे, नृतमाः शवसा इन्द्रं न वायुमिव च देवता त्वा राधसा पृणन्ति॥१३॥