Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 33 / Mantra 1

97 Mantra
33/1
Devata- अग्नयो देवताः Rishi- वत्सप्रीर्ऋषिः Chhand- स्वराट् पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
अ॒स्याजरा॑सो द॒माम॒रित्रा॑ऽअ॒र्चद्धू॑मासोऽअ॒ग्नयः॑पाव॒काः।श्वि॒ती॒चयः॑ श्वा॒त्रा॒सो॑ भुर॒ण्यवो॑ वन॒र्षदो॑ वा॒यवो॒ न सोमाः॑॥१॥

अ॒स्य। अ॒जरा॑सः। द॒माम्। अ॒रित्राः॑। अ॒र्चद्धू॑मास॒ इत्य॒र्चत्ऽधू॑मासः। अ॒ग्नयः॑। पा॒व॒काः ॥ श्वि॒ती॒चयः॑। श्वात्रासः॑। भु॒र॒ण्यवः॑। व॒न॒र्षदः॑। व॒न॒सद॒ इति॑ वन॒ऽसदः॑। वा॒यवः॑। न। सोमाः॑ ॥१ ॥

Mantra without Swara
अस्याजरासो दमामरित्राऽअर्चद्धूमासोऽअग्नयः पावकाः । श्वितीचयः श्वात्रासो भुरण्यवो वनर्षदो वायवो न सोमाः ॥

अस्य। अजरासः। दमाम्। अरित्राः। अर्चद्धूमास इत्यर्चत्ऽधूमासः। अग्नयः। पावकाः॥ श्वितीचयः। श्वात्रासः। भुरण्यवः। वनर्षदः। वनसद इति वनऽसदः। वायवः। न। सोमाः॥१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अस्य) परमेश्वरस्य (अजरासः) वयोहानिरहिताः (दमाम्) गृहाणाम्। अत्र नुडभावे पूर्वसवर्णदीर्घः। (अरित्राः) येऽरिभ्यस्त्रायन्ते ते (अर्चद्धूमासः) अर्चन्तः सुगन्धियुक्ता धूमा येषान्ते (अग्नयः) विद्युदादयः (पावकाः) पवित्रीकराः (श्वितीचयः) ये श्वितिं श्वेतवर्णं चिन्वन्ति ते (श्वात्रासः) श्वात्रं प्रवृद्धं धनं येभ्यस्ते। श्वात्रमिति धननामसु पठितम्॥ (निघं॰२।१०) (भुरण्यवः) धर्त्तारो गतिमन्तश्च (वनर्षदः) ये वनेषु रश्मिषु सीदन्ति ते। अत्र वा छन्दसीति रुडागमः। (वायवः) पवनाः (न) इव (सोमाः) ऐश्वर्यप्रापकाः॥१॥
Essence
अत्रोपमालङ्कारः। यदि मनुष्या अग्निवाय्वादीन् सृष्टिस्थान् पदार्थान् विजानीयुस्तर्ह्येतेभ्यो बहूनुपकारन् ग्रहीतुं शक्नुयुः॥१॥
Subject
अथाग्न्यादिपदार्थान् विज्ञाय कार्यं साध्यमित्याह॥
Anvaya
हे मनुष्याः! येऽस्य जगदीश्वरस्य सृष्टावजरासोऽरित्रा अर्चद्धूमासः पावकाः श्वितीचयः श्वात्रासो भुरण्यवः सोमा अग्नयो वनर्षदो वायवो न दमां धारकाः सन्ति, तान् यूयं विजानीत॥१॥