Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 31 / Mantra 8

22 Mantra
31/8
Devata- पुरुषो देवता Rishi- नारायण ऋषिः Chhand- निचृदनुष्टुप् Swara- गान्धारः
Mantra with Swara
तस्मा॒दश्वा॑ऽअजायन्त॒ ये के चो॑भ॒याद॑तः।गावो॑ ह जज्ञिरे॒ तस्मा॒त् तस्मा॑ज्जा॒ताऽअ॑जा॒वयः॑॥८॥

तस्मा॑त्। अश्वाः॑। अ॒जा॒य॒न्त॒। ये। के। च॒। उ॒भ॒याद॑तः। उ॒भ॒याद॑त॒ इत्यु॑भ॒यऽद॑तः ॥ गावः॑। ह॒। ज॒ज्ञि॒रे॒। तस्मा॑त्। तस्मा॑त्। जा॒ताः। अ॒जा॒वयः॑ ॥८ ॥

Mantra without Swara
तस्मादश्वाऽअजायन्त ये के चोभयादतः । गावो ह जज्ञिरे तस्मात्तस्माज्जाताऽअजावयः ॥

तस्मात्। अश्वाः। अजायन्त। ये। के। च। उभयादतः। उभयादत इत्युभयऽदतः॥ गावः। ह। जज्ञिरे। तस्मात्। तस्मात्। जाताः। अजावयः॥८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(तस्मात्) परमेश्वरात् (अश्वाः) तुरङ्गाः (अजायन्त) उत्पन्नाः (ये) (के) (च) गर्द्दभादयः (उभयादतः) उभयोरध ऊर्ध्वभागयोर्दन्ता येषान्ते (गावः) धेनवः। गाव इत्युपलक्षणमेकदताम्। (ह) किल (जज्ञिरे) उत्पन्नाः (तस्मात्) (तस्मात्) (जाताः) उत्पन्नाः (अजावयः) अजाश्चावयश्च ते॥८॥
Essence
हे मनुष्याः! यूयं गवाश्वादयो ग्राम्याः सर्वे पशवो यस्मात् सनातनात् पूर्णात् पुरुषादेवोत्पन्नास्तस्याज्ञोल्लङ्घनं कदापि मा कुरुत॥८॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! युष्माकमश्वा ये के चोभयादतः सन्ति ते तस्मादजायन्त। तस्माद् गावो ह जज्ञिरे तस्मादजावयो जाता इति वेद्यम्॥८॥