Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 31 / Mantra 22

22 Mantra
31/22
Devata- आदित्यो देवता Rishi- उत्तरनारायण ऋषिः Chhand- निचृदार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
श्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्या॑वहोरा॒त्रे पा॒र्श्वे नक्ष॑त्राणि रू॒पम॒श्विनौ॒ व्यात्त॑म्।इ॒ष्णन्नि॑षाणा॒मुं म॑ऽइषाण सर्वलो॒कं म॑ऽइषाण॥२२॥

श्रीः। च॒। ते॒। ल॒क्ष्मीः। च॒। पत्न्यौ॑। अ॒हो॒रा॒त्रेऽइत्य॑होरात्रे। पार्श्वेऽइति॑ पा॒र्श्वे। नक्ष॑त्राणि। रू॒पम्। अ॒श्विनौ॑। व्यात्त॒मिति॑ वि॒ऽआत्त॑म्। इष्णन् ॥ इषा॒ण॒। अ॒मुम्। मे॒। इ॒षा॒ण॒। स॒र्वलो॒कमिति॑ सर्वऽलो॒कम्। मे॒। इ॒षा॒ण॒ ॥२२ ॥

Mantra without Swara
श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्ताम् । इष्णन्निषाणामुम्मऽइषाण सर्वलोकम्म इषाण ॥

श्रीः। च। ते। लक्ष्मीः। च। पत्न्यौ। अहोरात्रेऽइत्यहोरात्रे। पार्श्वेऽइति पार्श्वे। नक्षत्राणि। रूपम्। अश्विनौ। व्यात्तमिति विऽआत्तम्। इष्णन्॥ इषाण। अमुम्। मे। इषाण। सर्वलोकमिति सर्वऽलोकम्। मे। इषाण॥२२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(श्रीः) सकला शोभा (च) (ते) तव (लक्ष्मीः) सर्वमैश्वर्य्यम् (च) (पत्न्यौ) स्त्रीवद्वर्त्तमाने (अहोरात्रे) (पार्श्वे) (नक्षत्राणि) (रूपम्) (अश्विनौ) सूर्याचन्द्रमसौ (व्यात्तम्) विकसितं मुखमिव। अत्र वि, आङ् पूर्वाड् डुदाञ् धातोः क्तः। (इष्णन्) इच्छन् (इषाण) कामय (अमुम्) इतः परं परोक्षं सुखम् (मे) मह्यम् (इषाण) प्रापय (सर्वलोकम्) सर्वेषां दर्शनम् (मे) मह्यम् (इषाण)॥२२॥
Essence
हे राजादयो मनुष्याः! यथेश्वरस्य न्यायादयो गुणा व्याप्तिः कृपा पुरुषार्थः सत्यं रचनं सत्या नियमाश्च सन्ति तथैव युष्माकमपि सन्तु यतो युष्माकमुत्तरोत्तरं सुख वर्द्धेतेति॥२२॥
Subject
अथेश्वरः कीदृश इत्याह॥
Anvaya
हे जगदीश्वर! यस्य ते श्रीश्च लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे यस्य ते सृष्टावश्विनौ व्यात्तं नक्षत्राणि रूपं स त्वं मेऽमुमिष्णन्निषाण मे सर्वलोकमिषाण मे सर्वाणि सुखानीषाण॥२२॥