Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 31 / Mantra 20

22 Mantra
31/20
Devata- सूर्य्यो देवता Rishi- उत्तरनारायण ऋषिः Chhand- अनुष्टुप् Swara- धैवतः
Mantra with Swara
यो दे॒वेभ्य॑ऽआ॒तप॑ति॒ यो दे॒वानां॑ पु॒रोहि॑तः।पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तो नमो॑ रु॒चाय॒ ब्राह्म॑ये॥२०॥

यः। दे॒वेभ्यः॑। आ॒तप॒तीत्या॒ऽतप॑ति। यः। दे॒वाना॑म्। पु॒रोहि॑त॒ इति॑ पु॒रःऽहि॑तः ॥ पूर्वः॑। यः। दे॒वेभ्यः॑। जा॒तः। नमः॑। रु॒चाय॑। ब्राह्म॑ये ॥२० ॥

Mantra without Swara
यो देवेभ्यऽआतपति यो देवानाम्पुरोहितः । पूर्वो यो देवेभ्यो जातो नमो रुचाय ब्राह्मये ॥

यः। देवेभ्यः। आतपतीत्याऽतपति। यः। देवानाम्। पुरोहित इति पुरःऽहितः॥ पूर्वः। यः। देवेभ्यः। जातः। नमः। रुचाय। ब्राह्मये॥२०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(यः) सूर्यः (देवेभ्यः) दिव्यगुणेभ्यः पृथिव्यादिभ्यः (आतपति) समन्तात् तपति (यः) (देवानाम्) पृथिव्यादिलोकानाम् (पुरोहितः) पुरस्ताद्धिताय मध्ये धृतः (पूर्वः) (यः) (देवेभ्यः) पृथिव्यादिभ्यः (जातः) उत्पन्नः (नमः) अन्नम् (रुचाय) रुचिकरात् (ब्राह्मये) यो ब्रह्मणः परमेश्वरस्यापत्यमिव तस्मात्। अत्रोभयत्र पञ्चम्यर्थे चतुर्थी॥२०॥
Essence
हे मनुष्याः! येन जगदीश्वरेण सर्वेषां हितायान्नाद्युत्पादननिमित्तः सूर्य्यो निर्मितस्तमेव सततमुपासीध्वम्॥२०॥
Subject
अथ सूर्यः कीदृश इत्याह॥
Anvaya
हे मनुष्याः! यो देवेभ्य आतपति यो देवानां पुरोहितो यो देवेभ्यः पूर्वो जातस्तस्माद् रुचाय ब्राह्मये नमो जायते॥२०॥