Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 31 / Mantra 18

22 Mantra
31/18
Devata- आदित्यो देवता Rishi- उत्तरनारायण ऋषिः Chhand- निचृत्त्रिष्टुप् Swara- धैवतः
Mantra with Swara
वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑मादि॒त्यव॑र्णं॒ तम॑सः प॒रस्ता॑त्।तमे॒व वि॑दि॒त्वाति॑ मृ॒त्युमे॑ति॒ नान्यः पन्था॑ विद्य॒तेऽय॑नाय॥१८॥

वेद॑। अ॒हम्। ए॒तम्। पुरु॑षम्। म॒हान्त॑म्। आ॒दि॒त्यव॑र्ण॒मित्या॑दि॒त्यऽव॑र्णम्। तम॑सः। प॒रस्ता॑त् ॥ तम्। ए॒व। वि॒दि॒त्वा। अति॑। मृ॒त्युम्। ए॒ति॒। न। अ॒न्यः। पन्थाः॑। वि॒द्य॒ते॒। अय॑नाय ॥१८ ॥

Mantra without Swara
वेदाहमेतम्पुरुषम्महान्तमादित्यवर्णन्तमसः परस्तात् । तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेयनाय ॥

वेद। अहम्। एतम्। पुरुषम्। महान्तम्। आदित्यवर्णमित्यादित्यऽवर्णम्। तमसः। परस्तात्॥ तम्। एव। विदित्वा। अति। मृत्युम्। एति। न। अन्यः। पन्थाः। विद्यते। अयनाय॥१८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(वेद) जानामि (अहम्) (एतम्) पूर्वोक्तं परमात्मानम् (पुरुषम्) स्वस्वरूपेण पूर्णम् (महान्तम्) महागुणविशिष्टम् (आदित्यवर्णम्) आदित्यस्य वर्णः स्वरूपमिव स्वरूपं यस्य तं स्वप्रकाशम् (तमसः) अज्ञानादन्धकाराद्वा (परस्तात्) परस्मिन् वर्त्तमानम् (तम्) (एव) (विदित्वा) विज्ञाय (अति) उल्लङ्घने (मृत्युम्) दुःखप्रदं मरणम् (एति) गच्छति (न) (अन्यः) भिन्नः (पन्थाः) मार्गः (विद्यते) भवति (अयनाय) अभीष्टस्थानाय मोक्षाय॥१८॥
Essence
यदि मनुष्या ऐहिकपारमार्थिके सुखे इच्छेयुस्तर्हि सर्वेभ्यो बृहत्तमं स्वप्रकाशानन्दस्वरूपमज्ञानलेशाद् दूरे वर्त्तमानं परमात्मानं ज्ञात्वैव मरणाद्यगाधदुःखसागरात् पृथग्भवितुं शक्नुवन्त्ययमेव सुखप्रदो मार्गोऽस्ति। अस्मादन्यः कश्चिदपि मनुष्याणां मुक्तिमार्गो न भवति॥१८॥
Subject
अथ विज्ञानं जिज्ञासवे कथमुपदिशेदित्याह॥
Anvaya
हे जिज्ञासोऽहं यमेतं महान्तमादित्यवर्णं तमसः परस्ताद्वर्त्तमानं पुरुषं वेद तमेव विदित्वा भवान् मृत्युमत्येति। अन्यः पन्था अयनाय न विद्यते॥१८॥