Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 30 / Mantra 22

22 Mantra
30/22
Devata- राजेश्वरौ देवते Rishi- नारायण ऋषिः Chhand- निचृत्कृतिः Swara- निषादः
Mantra with Swara
अथै॒तान॒ष्टौ विरू॑पा॒ना ल॑भ॒तेऽति॑दीर्घं॒ चाति॑ह्रस्वं॒ चाति॑स्थूलं॒ चाति॑कृशं॒ चाति॑शुक्लं॒ चाति॑कृष्णं॒ चाति॑कुल्वं॒ चाति॑लोमशं च। अशू॑द्रा॒ऽअब्रा॑ह्मणा॒स्ते प्रा॑जाप॒त्याः। मा॒ग॒धः पुँ॑श्च॒ली कि॑त॒वः क्ली॒बोऽशू॑द्रा॑ऽअब्रा॑ह्मणा॒स्ते प्रा॑जाप॒त्याः॥२२॥

अथ॑। ए॒तान्। अ॒ष्टौ। विरू॑पानिति॒ विऽरू॑पान्। आ। ल॒भ॒ते॒। अति॑दीर्घ॒मित्यति॑ऽदीर्घम्। च॒। अति॑ह्रस्व॒मित्यति॑ऽह्रस्वम्। च॒। अति॑स्थूल॒मित्यति॑ऽस्थूलम्। च॒। अति॑कृश॒मित्यति॑ऽकृशम्। च॒। अति॑शुक्ल॒मित्यति॑ऽशुक्लम्। च॒। अति॑कृष्ण॒मित्यति॑ऽकृष्णम्। च॒। अति॑कुल्व॒मित्यति॑ऽकुल्वम्। च॒। अति॑लोमश॒मित्यति॑ऽलोमशम्। च॒। अशू॑द्राः। अब्रा॑ह्मणाः। ते। प्रा॒जा॒प॒त्या इति॑ प्राजाऽप॒त्याः। मा॒ग॒धः। पुँ॒श्च॒ली। कि॒त॒वः। क्लीबः॒। अशू॑द्राः। अब्रा॑ह्मणाः। ते। प्रा॒जा॒प॒त्या इति॑ प्राजाऽप॒त्याः ॥२२ ॥

Mantra without Swara
अथैतानष्टौ विरूपानालभतेतिदीर्घञ्चातिह््रस्वञ्चातिस्थूलञ्चातिकृशञ्चातिशुक्लञ्चातिकृष्णञ्चातिकुल्वञ्चातिलोमशञ्च । अशूद्राऽअब्राह्मणास्ते प्राजापत्याः । मागधः पुँश्चली कितवः क्लीबो शूद्राऽअब्राह्मणास्ते प्राजापत्याः ॥

अथ। एतान्। अष्टौ। विरूपानिति विऽरूपान्। आ। लभते। अतिदीर्घमित्यतिऽदीर्घम्। च। अतिह्रस्वमित्यतिऽह्रस्वम्। च। अतिस्थूलमित्यतिऽस्थूलम्। च। अतिकृशमित्यतिऽकृशम्। च। अतिशुक्लामित्यतिऽशुक्लम्। च। अतिकृष्णमित्यतिऽकृष्णम्। च। अतिकुल्वमित्यतिऽकुल्वम्। च। अतिलोमशमित्यतिऽलोमशम्। च। अशूद्राः। अब्राह्मणाः। ते। प्राजापत्या इति प्राजाऽपत्याः। मागधः। पुँश्चली। कितवः। क्लीबः। अशूद्राः। अब्राह्मणाः। ते। प्राजापत्या इति प्राजाऽपत्याः॥२२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अथ) आनन्तर्य्ये (एतान्) पूर्वोक्तान् (अष्टौ) (विरूपान्) विविधस्वरूपान् (आ) समन्तात् (लभते) प्राप्नोति (अतिदीर्घम्) अतिशयेन दीर्घम् (च) (अतिह्रस्वम्) अतिशयेन ह्रस्वम् (च) (अतिस्थूलम्) (च) (अतिकृशम्) (च) (अतिशुक्लम्) (च) (अतिकृष्णम्) (च) (अतिकुल्वम्) लोमरहितम् (च) (अतिलोमशम्) अतिशयेन लोमयुक्तम् (च) (अशूद्राः) न शूद्रा अशूद्राः (अब्राह्मणाः) न ब्राह्मणाः अब्राह्मणाः (ते) (प्राजापत्याः) प्रजापतिदेवताकाः (मागधः) नृशंसः (पुँश्चली) या पुँभिश्चलितचित्ता व्यभिचारिणी (कितवः) द्यूतशीलः (क्लीबः) नपुंसकः (अशूद्राः) अविद्यामानः शूद्रो येषान्ते (अब्राह्मणाः) अविद्यमानो ब्राह्मणो येषान्ते (ते) (प्राजापत्याः) प्रजापतेरिमे ते॥२२॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः! यथा विद्वांसः सूक्ष्ममहत्पदार्थान् विज्ञाय यथायोग्यं व्यवहारं साध्नुवन्ति, तथाऽन्येऽपि साध्नुवन्तु। सर्वैः प्रजापतेरीश्वरस्योपासना नित्यं कर्त्तव्या इति॥२२॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे राजानो! यथा विद्वानतिदीर्घं चातिह्रस्वं चातिस्थूलं चातिकृशं चातिशुक्लं चातिकृष्णं चातिकुल्वं चातिलोमशं चैतान् विरूपानष्टावालभते, तथा यूयमप्यालभध्वम्। अथ येऽशूद्रा अब्राह्मणः प्राजापत्याः सन्ति, तेऽप्यालभेरन्। यो मागधो या पुंश्चली कितवः क्लीबोऽशूद्रा अब्राह्मणास्ते दूरे वासनीयाः। ये प्राजापत्यास्ते समीपे निवासनीयाः॥२२॥