Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 30 / Mantra 17

22 Mantra
30/17
Devata- राजेश्वरौ देवते Rishi- नारायण ऋषिः Chhand- विराट् धृतिः Swara- ऋषभः
Mantra with Swara
बी॒भ॒त्सायै॑ पौल्क॒सं वर्णा॑य हिरण्यकारं तु॒लायै॑ वाणि॒जं प॑श्चादो॒षाय॑ ग्ला॒विनं॒ विश्वे॑भ्यो भू॒तेभ्यः॑ सिध्म॒लं भूत्यै॑ जागर॒णमभू॑त्यै स्वप॒नमार्त्यै॑ जनवा॒दिनं॒ व्यृद्ध्याऽअपग॒ल्भꣳ सꣳश॒राय॑ प्र॒च्छिद॑म्॥१७॥

बी॒भ॒त्सायै॑। पौ॒ल्क॒सम्। वर्णा॑य। हि॒र॒ण्य॒का॒रमिति॑ हिरण्यऽका॒रम्। तु॒लायै॑। वा॒णि॒जम्। प॒श्चा॒दो॒षायेति॑ पश्चाऽदो॒षाय॑। ग्ला॒विन॑म्। विश्वे॑भ्यः। भू॒तेभ्यः॑। सि॒ध्म॒लम्। भूत्यै॑। जा॒ग॒र॒णम्। अभू॑त्यै। स्व॒प॒नम्। आर्त्या॒ इत्याऽऋ॑त्यै। ज॒न॒वा॒दिन॒मिति॑ जनऽवा॒दिन॑म्। व्यृ᳖द्ध्या इति॒ विऽऋ॑ध्यै। अ॒प॒ग॒ल्भमित्य॑पऽग॒ल्भम्। स॒ꣳश॒रायेति॑ सम्ऽश॒राय॑। प्र॒च्छिद॒मिति॑ प्र॒ऽच्छिद॑म् ॥१७ ॥

Mantra without Swara
बीभत्सायै पौल्कसँवर्णाय हिरण्यकारन्तुलायै वाणिजम्पश्चादोषाय ग्लाविनँविश्वेभ्यो भूतेभ्यः सिध्मलम्भूत्यै जागरणमभूत्यै स्वपनमार्त्यै जनवादिनँव्यृद्धर्याऽअपगल्भँ सँशराय प्रच्छिदम् ॥

बीभत्सायै। पौल्कसम्। वर्णाय। हिरण्यकारमिति हिरण्यऽकारम्। तुलायै। वाणिजम्। पश्चादोषायेति पश्चाऽदोषाय। ग्लाविनम्। विश्वेभ्यः। भूतेभ्यः। सिध्मलम्। भूत्यै। जागरणम्। अभूत्यै। स्वपनम्। आर्त्या इत्याऽऋत्यै। जनवादिनमिति जनऽवादिनम्। व्यृद्ध्या इति विऽऋध्यै। अपगल्भमित्यपऽगल्भम्। सꣳशरायेति सम्ऽशराय। प्रच्छिदमिति प्रऽच्छिदम्॥१७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(बीभत्सायै) भर्त्सनाय प्रवृत्तम् (पौल्कसम्) पुक्कसस्यान्त्यजस्याऽपत्यम्। अत्र पृषोदरादित्वादभीष्टसिद्धिः (वर्णाय) सुरूपसंपादनाय (हिरण्यकारम्) सुवर्णकारं सूर्यं वा (तुलायै) तोलनाय (वाणिजम्) वणिगपत्यम् (पश्चादोषाय) पश्चाद्दोषदानाय प्रवृत्तम् (ग्लाविनम्) अहर्षितारम् (विश्वेभ्यः) सर्वेभ्यः (भूतेभ्यः) (सिध्मलम्) सिध्माः सुखसाधका विद्यन्ते यस्य तम् (भूत्यै) ऐश्वर्याय (जागरणम्) जागृतम् (अभूत्यै) अनैश्वर्याय (स्वपनम्) निद्राम् (आर्त्यै) पीडानिवृत्तये (जनवादिनम्) प्रशस्ता जनवादा विद्यन्ते यस्य तम् (व्यृद्ध्यै) विगता चासौ ऋद्धिश्च व्यृद्धिस्तस्यै (अपगल्भम्) प्रगल्भतारहितम् (संशराय) सम्यग्घिंसनाय प्रवृत्तम् (प्रच्छिदम्) यः प्रच्छिनत्ति तम्॥१७॥
Essence
ये मनुष्या नीचसङ्गं त्यक्त्वोत्तमसङ्गतिं कुर्वन्ति, ते सर्वव्यवहारसिद्ध्यैश्वर्यवन्तो जायन्ते। येऽनलसाः सन्तः सिद्धये यतन्ते, ते सुखं ये चाऽलसास्ते च दारिद्र्यमाप्नुवन्ति॥१७॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे ईश्वर वा राजन्! त्वं बीभत्सायै पौल्कसं पश्चादोषाय ग्लाविनमभूत्यै स्वपनं व्यृद्ध्या अपगल्भं संशराय प्रच्छिदं परासुव। वर्णाय हिरण्यकारं तुलायै वाणिजं विश्वेभ्यो भूतेभ्यः सिध्मलं भूत्यै जागरणमार्त्यै जनवादिनमासुव॥१७॥