Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 30 / Mantra 16

22 Mantra
30/16
Devata- राजेश्वरौ देवते Rishi- नारायण ऋषिः Chhand- विराट् कृतिः Swara- निषादः
Mantra with Swara
सरो॑भ्यो धैव॒रमु॑प॒स्थाव॑राभ्यो॒ दाशं॑ वैश॒न्ताभ्यो॑ बै॒न्दं न॑ड्व॒लाभ्यः॒ शौष्क॑लं पा॒राय॑ मार्गा॒रम॑वा॒राय॑ के॒वर्त्तं॑ ती॒र्थेभ्य॑ऽआ॒न्दं विष॑मेभ्यो मैना॒ल स्वने॑भ्यः॒ पर्ण॑कं॒ गुहा॑भ्यः॒ किरा॑त॒ꣳ सानु॑भ्यो॒ जम्भ॑कं॒ पर्व॑तेभ्यः किम्पूरु॒षम्॥१६॥

सरो॑भ्य॒ इति॒ सरः॑ऽभ्यः। धै॒व॒रम्। उ॒प॒स्थाव॑राभ्य॒ इत्यु॑प॒ऽस्थाव॑राभ्यः। दाश॑म्। वै॒श॒न्ताभ्यः॑। बै॒न्दम्। न॒ड्व॒लाभ्यः॑। शौष्क॑लम्। पा॒राय॑। मा॒र्गा॒रम्। अ॒वा॒राय॑। कै॒वर्त्त॑म्। ती॒र्थेभ्यः॑। आ॒न्दम्। विष॑मेभ्य॒ इति॒ विऽस॑मेभ्यः। मै॒ना॒लम्। स्वने॑भ्यः। पर्ण॑कम्। गुहा॑भ्यः। किरा॑तम्। सानु॑भ्य॒ इति॒ सानु॑ऽभ्यः। जम्भ॑कम्। पर्व॑तेभ्यः। कि॒म्पू॒रु॒षम्। कि॒म्पु॒रु॒षमिति॑ किम्ऽपुरु॒षम् ॥१६ ॥

Mantra without Swara
सरेभ्यो धैवरमुपस्थावराभ्यो दाशँ वैशन्ताभ्यो बैन्दन्नड्वलाभ्यः शौष्कलम्पाराय मार्गारमवराय कैवर्तन्तीतीर्थेभ्यऽआन्दँविषमेभ्यो मैनालँ स्वनेभ्यः पर्णकङ्गुहाभ्यः किरातँ सानुभ्यो जम्भकम्पर्वतेभ्यः किम्पूरुषम् ॥

सरोभ्य इति सरःऽभ्यः। धैवरम्। उपस्थावराभ्य इत्युपऽस्थावराभ्यः। दाशम्। वैशन्ताभ्यः। बैन्दम्। नड्वलाभ्यः। शौष्कलम्। पाराय। मार्गारम्। अवाराय। कैवर्त्तम्। तीर्थेभ्यः। आन्दम्। विषमेभ्य इति विऽसमेभ्यः। मैनालम्। स्वनेभ्यः। पर्णकम्। गुहाभ्यः। किरातम्। सानुभ्य इति सानुऽभ्यः। जम्भकम्। पर्वतेभ्यः। किम्पूरुषम्। किम्पुरुषमिति किम्ऽपुरुषम्॥१६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(सरोभ्यः) तडागेभ्यस्तारणाय (धैवरम्) धीवरस्यापत्यम् (उपस्थावराभ्यः) उपस्थिताभ्योऽवराभ्यो निकृष्टक्रियाभ्यः (दाशम्) दाशत्यस्मै तम् (वैशन्ताभ्यः) वेशन्ता अल्पजलाशयास्ता एव ताभ्यः (बैन्दम्) निषादस्यापत्यम् (नड्वलाभ्यः) नडा विद्यन्ते यासु भूमिषु ताभ्यः (शौष्कलम्) यश्शुष्कलैर्मत्स्यैर्जीवति तम् (पाराय) मृगकर्मसमाप्त्यर्थं प्रवृत्तम् (मार्गारम्) यो मृगाणामरिर्व्याधस्तस्यापत्यम् (अवाराय) अर्वाचीनमागमनाय (कैवर्त्तम्) जले नौकायाः परावरयोर्गमकम् (तीर्थेभ्यः) तरन्ति यैस्तीर्यन्ते वा तेभ्यः (आन्दम्) बन्धितारम् (विषमेभ्यः) विकटदेशेभ्यः (मैनालम्) यो मैनं कामदेवमलति वारयति तं जितेन्द्रियम् (स्वनेभ्यः) शब्देभ्यः (पर्णकम्) यः पर्णेषु पालनेषु कुत्सितस्तम् (गुहाभ्यः) कन्दराभ्यः (किरातम्) जनविशेषम् (सानुभ्यः) शैलशिखरेभ्यः (जम्भकम्) यो जम्भयति नाशयति तम् (पर्वतेभ्यः) गिरिभ्यः (किम्पूरुषम्) जाङ्गलं कुत्सितं मनुष्यम्॥१६॥
Essence
मनुष्या ईश्वरगुणकर्मस्वभावानुकूलैः कर्मभिर्धीवरादीन् संरक्ष्य व्याधादीन् परित्यज्योत्तमं सुखं प्राप्नुवन्तु॥१६॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे जगदीश्वर राजन् वा! त्वं सरोभ्यो धैवरमुपस्थावराभ्यो दाशं वैशन्ताभ्यो बैन्दं नड्वलाभ्यः शौष्कलं विषमेभ्यो मैनालमवाराय कैवर्त्तं तीर्थेभ्य आन्दमासुव। पाराय मार्गारं स्वनेभ्यः पर्णकं गुहाभ्यः किरातं सानुभ्यो जम्भकं पर्वतेभ्यः किम्पूरुषं परासुव॥१६॥