Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 30 / Mantra 15

22 Mantra
30/15
Devata- राजेश्वरौ देवते Rishi- नारायण ऋषिः Chhand- विराट् कृतिः Swara- निषादः
Mantra with Swara
य॒माय॑ यम॒सूमथ॑र्व॒भ्योऽव॑तोका संवत्स॒राय॑ पर्य्या॒यिणीं॑ परिवत्स॒रायावि॑जाता- मिदावत्स॒राया॒तीत्व॑रीमिद्वत्स॒राया॑ति॒ष्कद्व॑रीं वत्स॒राय॒ विज॑र्जरा संवत्स॒राय॒ पलि॑क्नीमृ॒भुभ्यो॑ऽ जिनस॒न्धꣳ सा॒ध्येभ्य॒श्चर्म॒म्नम्॥१५॥

य॒माय॑। य॒म॒सूमिति॑ यम॒ऽसूम्। अथ॑र्वभ्य॒ इत्यथ॑र्वऽभ्यः। अव॑तोका॒मित्यव॑ऽतोकाम्। सं॒व॒त्स॒राय॑। प॒र्य्या॒यिणी॑म्। प॒र्य्या॒यिनी॒मिति॒ परिऽआ॒यिनी॒॑म्। प॒रि॒व॒त्स॒रायेति॑ परिऽवत्स॒राय॑। अवि॑जाता॒मित्यवि॑ऽजाताम्। इ॒दा॒व॒त्स॒राय॑। अ॒तीत्व॑री॒मित्य॑ति॒ऽइत्व॑रीम्। इ॒द्व॒त्स॒रायेती॑त्ऽवत्स॒राय॑। अ॒ति॒ष्कद्व॑रीम्। अ॒ति॒स्कद्व॑री॒मित्य॑ति॒ऽस्कद्व॑रीम्। व॒त्स॒राय॑। विज॑र्जरा॒मिति॒ विऽज॑र्जराम्। सं॒व॒त्स॒राय॑। पलि॑क्नीम्। ऋ॒भुभ्य॒ इत्यृ॒भुऽभ्यः॑। अ॒जि॒न॒स॒न्धमित्य॑जिनऽस॒न्धम्। सा॒ध्येभ्यः॑। च॒र्म॒म्नमिति॑ चर्म॒ऽम्नम् ॥१५ ॥

Mantra without Swara
यमाय यमसूमथर्वभ्योवतोकाँ सँवत्सराय पर्यायिणीम्परिवत्सरायाविजातामिदावत्सरायातीत्वरीमिद्वत्सरायातिष्कद्वरीँवत्सराय विजर्जराँ सँवत्सराय पलिक्नीमृभुभ्यो जिनसंन्धँ साध्येभ्यश्चर्मम्नम् ॥

यमाय। यमसूमिति यमऽसूम्। अथर्वभ्य इत्यथर्वऽभ्यः। अवतोकामित्यवऽतोकाम्। संवत्सराय। पर्य्यायिणीम्। पर्य्यायिनीमिति परिऽआयिनीम्। परिवत्सरायेति परिऽवत्सराय। अविजातामित्यविऽजाताम्। इदावत्सराय। अतीत्वरीमित्यतिऽइत्वरीम्। इद्वत्सरायेतीत्ऽवत्सराय। अतिष्कद्वरीम्। अतिस्कद्वरीमित्यतिऽस्कद्वरीम्। वत्सराय। विजर्जरामिति विऽजर्जराम्। संवत्सराय। पलिक्नीम्। ऋभुभ्य इत्यृभुऽभ्यः। अजिनसन्धमित्यजिनऽसन्धम्। साध्येभ्यः। चर्मम्नमिति चर्मऽम्नम्॥१५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(यमाय) नियन्त्रे (यमसूम्) या यमान् नियन्तॄन् सूते ताम् (अथर्वभ्यः) अहिंसकेभ्यः (अवतोकाम्) निरपत्याम् (संवत्सराय) (पर्यायिणीम्) परितः कालक्रमज्ञाम् (परिवत्सराय) द्वितीयवर्षनिर्णयाय (अविजाताम्) अप्रसूतां ब्रह्मचारिणीम् (इदावत्सराय) इदावत्सरस्तृतीयस्तत्र कार्य्यसम्पादनाय। अत्र वर्णव्यत्ययः। (अतीत्वरीम्) अतिगमनशीलाम् (इद्वत्सराय) पञ्चमाय वर्षाय (अतिष्कद्वरीम्) अतिशयेन या स्कन्दति जानाति ताम् (वत्सराय) सामान्याय (विजर्जराम्) विशेषेण जर्जरीभूताम् (संवत्सराय) चतुर्थायानुवत्सराय। अत्रानोः पूर्वपदस्य लोपः। (पलिक्नीम्) श्वेतकेशाम् (ऋभुभ्यः) मेधाविभ्यः (अजिनसन्धम्) जेतुमयोग्यान् संदधाति तम्। अत्र जि धातो कर्मणि नक्॥ (उणा॰३।२) (साध्येभ्यः) ये साद्धुं योग्यास्तेभ्यः (चर्मम्नम्) यश्चर्म विज्ञानं म्नात्यभ्यस्यति तम्॥१५॥
Essence
प्रभवादिषष्टिसंवत्सरेषु पञ्च पञ्च कृत्वा द्वादश युगानि भवन्ति, प्रत्येकयुगे क्रमेण संवत्सरपरिवत्सरानुवत्सरेद्वत्सराः पञ्च सञ्ज्ञा भवन्ति, तान् सर्वकालावयवमूलान् विशेषतया याः स्त्रियो यथावद्विज्ञाय व्यर्थन्न नयन्ति, ताः सर्वार्थसिद्धिमाप्नुवन्ति॥१५॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे जगदीश्वर राजन् वा! त्वं यमाय यमसूमथर्वभ्योऽवतोकां संवत्सराय पर्य्यायिणीं परिवत्सराया-विजातामिदावत्सरायातीत्वरीमिद्वत्सरायातिष्कद्वरीं वत्सराय विजर्जरां संवत्सराय पलिक्नीमृभुभ्योऽजिनसन्धं साध्येभ्यञ्चर्मम्नमासुव॥१५॥