Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 3 / Mantra 6

63 Mantra
3/6
Devata- अग्निर्देवता Rishi- सर्प्पराज्ञी कद्रूर्ऋषिः Chhand- निचृत् गायत्री, Swara- षड्जः
Mantra with Swara
आयं गौः पृश्नि॑रक्रमी॒दस॑दन् मा॒तरं॑ पु॒रः। पि॒तरं॑ च प्र॒यन्त्स्वः॑॥६॥

आ। अ॒यम्। गौः। पृश्निः॑। अ॒क्र॒मी॒त्। अस॑दत्। मा॒तर॑म्। पु॒रः। पि॒तर॑म्। च॒। प्र॒यन्निति॑ प्र॒ऽयन्। स्व॒रिति॒ स्वः᳕ ॥६॥

Mantra without Swara
आयङ्गौः पृश्निरक्रमीदसदन्मातरम्पुरः पितरञ्च प्रयन्त्स्वः ॥

आ। अयम्। गौः। पृश्निः। अक्रमीत्। असदत्। मातरम्। पुरः। पितरम्। च। प्रयन्निति प्रऽयन्। स्वरिति स्वः॥६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(आ) अभ्यर्थे (अयम्) प्रत्यक्षः (गौः) यो गच्छति स भूगोलः। गौरिति पृथिवीनामसु पठितम्। (निघं॰१.१) गौरिति पृथिव्या नामधेयम्। यद् दूरं गता भवति। यच्चास्यां भूतानि गच्छन्ति (निरु॰२.५) (पृश्निः) अन्तरिक्षे। अत्र सुपां सुलुग्॰ [अष्टा॰७.१.३९] इति सप्तम्येकवचने प्रथमैकवचनम्। पृश्निरिति साधारणनामसु पठितम्। (निघं॰१.४) (अक्रमीत्) क्राम्यति, अत्र लडर्थे लुङ्। (असदत्) स्वकक्ष्यायां भ्रमति। अत्रापि लडर्थे लुङ् (मातरम्) स्वयोनिमपः। जलनिमित्तेन पृथिव्युत्पत्तेः (पुरः) पूर्वं पूर्वम् (पितरम्) पालकम् (प्रयन्) प्रकृष्टतया गच्छन् (स्वः) आदित्यम्। स्वरादित्यो भवति। (निरु॰२.१४)। अयं मन्त्रः (शत॰२.१.४.२९ निगदव्याख्यातः॥६॥
Essence
मनुष्यैर्यस्माज्जलाग्निनिमित्तोत्पन्नोऽयं भूगोलोऽन्तरिक्षे स्वकक्ष्यायामाकर्षणेन रक्षकस्य सूर्यस्याभितः प्रतिक्षणं भ्रमति, तस्मादहोरात्रशुक्लकृष्णपक्षर्त्वयनादीनि कालविभागाः क्रमशः सम्भवन्तीति वेद्यम्॥६॥
Subject
अथाग्निनिमित्तेन पृथिवीभ्रमणविषय उपदिश्यते॥
Anvaya
अयं गौः पृथिवीगोलः स्वः पितरं पुरः प्रयन्मातरमपश्च प्रयन् पृश्निरन्तरिक्षे आक्रमीदाक्राम्यति समन्ताद् भ्रमति॥६॥