Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 3 / Mantra 57

63 Mantra
3/57
Devata- रुद्रो देवता Rishi- बन्धुर्ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
ए॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राम्बि॑कया॒ तं जु॑षस्व॒ स्वाहै॒ष ते॑ रुद्र भा॒गऽआ॒खुस्ते॑ प॒शुः॥५७॥

ए॒षः। ते॒। रु॒द्र॒। भा॒गः। स॒ह। स्वस्रा॑। अम्बि॑कया। तम्। जु॒ष॒स्व॒। स्वाहा॑। ए॒षः। ते॒। रु॒द्र॒। भा॒गः। आ॒खुः। ते॒। प॒शुः ॥५७॥

Mantra without Swara
एष ते रुद्र भागः सह स्वस्राम्बिकया तञ्जुषस्व स्वाहैष ते रुद्र भाग आखुस्ते पशुः ॥

एषः। ते। रुद्र। भागः। सह। स्वस्रा। अम्बिकया। तम्। जुषस्व। स्वाहा। एषः। ते। रुद्र। भागः। आखुः। ते। पशुः॥५७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(एषः) प्रत्यक्षः (ते) तवास्य वा (रुद्र) रोदयत्यन्यायकारिणो जनान् स रुद्रः स्तोता तत्सम्बुद्धौ। रुद्र इति स्तोतृनामसु पठितम्। (निघं॰३.१६)। रुद्र इत्येतस्य त्रयस्त्रिंशद्देवव्याख्याने प्राणसंज्ञेत्युक्तम्। रुद्र रौतीति सतो रोरूयमाणो द्रवतीति वा, रोदयतेर्वा, यदरुदत्तद्रुद्रस्य रुद्रत्वमिति काठकम्, यदरोदीत् तद्रुद्रस्य रुद्रत्वमिति हारिद्रविकम् (निरु॰१०.५)। रोदेर्णिलुक् च (उणा॰२.२२) अनेन रुद्रशब्दः सिद्धः। (भागः) सेवनीयः (सह) सङ्गे (स्वस्रा) सुष्ठ्वस्यति प्रक्षिपति यया विद्यया क्रियया वा तया। सावसेर्ऋन् (उणा॰२.९६) अनेन स्वसृशब्दः सिध्यति। (अम्बिकया) अम्बते शब्दयति यया तया (तम्) भागम् (जुषस्व) सेवस्व सेवते वा। अत्र पक्षे व्यत्ययो लडर्थे लोट् च। (स्वाहा) शोभनं देयमादेयमाह यया सा (एषः) वक्ष्यमाणः (ते) तवास्य वा (रुद्र) उक्तार्थः (भागः) भजनीयः (आखुः) समन्तात् खनत्यवदृणाति येन भोजनसाधनेन सः। अत्र आङ्परयोः खतिशॄभ्यां डिच्च (उणा॰१.३३) इति कुप्रत्ययो डित्संज्ञा च। (पशुः) यो दृश्यते भोग्यपदार्थसमूहः समक्षे स्थापितः सः। अत्र अजिदृशिकमिः (उणा॰१.२७) इत्यौणादिकसूत्रेणास्य सिद्धिः। अयं मन्त्रः (शत॰२.६.२.९-१०) व्याख्यातः॥५७॥
Essence
अत्र श्लेषालङ्कारः। यथा भ्राता प्रियया विदुष्या भगिन्या सह वेदादिशब्दविद्यां पठित्वाऽऽनन्दं भुङ्क्ते, यथा चाऽयं प्राणः श्रेष्ठया शब्दविद्यया प्रियो जायते, तथैव विद्वान् शब्दविद्यां प्राप्य सुखी जायते। नैताभ्यां विना कश्चिदपि सत्यं ज्ञानं सुखभोगं च प्राप्तुं शक्नोतीति॥५७॥
Subject
अथ मनलक्षणकथनानन्तरं प्राणलक्षणमुपदिश्यते॥
Anvaya
हे रुद्र स्तोतस्ते तवैषो भागोऽस्ति, तं त्वमम्बिकया स्वस्रा सह जुषस्व। हे रुद्र! ते तवैषोऽयं भागः स्वाहास्ति, तं सेवस्व। हे रुद्र! ते तवैष आखुः पशुश्चास्ति, तं जुषस्व सेवस्वेत्येकः॥१॥५७॥ योऽयं रुद्रः प्राणस्तेऽस्य रुद्रस्य योऽयं भागोऽयमम्बिकया स्वस्रा सह जुषस्व सेवते, तेऽस्य रुद्रस्यैषोऽयं स्वाहाभागस्तथा यस्तेऽस्याखुः पशुश्चास्ति, यमयं सततं सेवते तं सर्वे मनुष्याः सेवन्ताम्॥२॥५७॥