Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 3 / Mantra 48

63 Mantra
3/48
Devata- यज्ञो देवता Rishi- और्णवाभ ऋषिः Chhand- ब्राह्मी अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पु॒णः। अव॑ दे॒वैर्दे॒वकृ॑तमेनो॑ऽयासिष॒मव॒ मर्त्यै॒र्मर्त्य॑कृतं पुरु॒राव्णो॑ देव रि॒षस्पा॑हि॥४८॥

अव॑भृ॒थेत्यव॑ऽभृथ। नि॒चु॒म्पु॒णेति॑ निऽचुम्पुण। नि॒चे॒रुरिति॑ निचे॒रुः। अ॒सि॒। नि॒चु॒म्पु॒ण इति॑ निऽचुम्पु॒णः। अव॑। दे॒वैः। दे॒वकृ॑त॒मिति॑ दे॒वऽकृ॑तम्। एनः॑। अ॒या॒सि॒ष॒म्। अव॑। मर्त्यैः॑। मर्त्य॑कृत॒मिति॒ मर्त्य॑ऽकृतम्। पु॒रु॒ऽराव्ण॒ इति पुरु॒ऽराव्णः॑। दे॒व॒। रि॒षः। पा॒हि॒ ॥४८॥

Mantra without Swara
अवभृथ निचुम्पुण निचेरुरसि निचुम्पुणः । अव देवैर्देवकृतमेनो यासिषमव मर्त्यैर्मर्त्यकृतम्पुरुराव्णो देव रिषस्पाहि ॥

अवभृथेत्यवऽभृथ। निचुम्पुणेति निऽचुम्पुण। निचेरुरिति निचेरुः। असि। निचुम्पुण इति निऽचुम्पुणः। अव। देवैः। देवकृतमिति देवऽकृतम्। एनः। अयासिषम्। अव। मर्त्यैः। मर्त्यकृतमिति मर्त्यऽकृतम्। पुरुऽराव्ण इति पुरुऽराव्णः। देव। रिषः। पाहि॥४८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अवभृथ) विद्याधर्मानुष्ठानेन शुद्ध। अत्र अवे भृञः (उणा॰२.३) इति क्थन् प्रत्ययः। (निचुम्पुण) धैर्येण शब्दविद्याध्यापक। नितरां चोपति मन्दं मन्दं चलति तत्सम्बुद्धौ। अत्र चुप्धातोर्बाहुलकादुणः प्रत्ययो मुमागमश्च। नीचैरस्मिन् क्वणन्ति नीचैर्दधतीति वा। अवभृथ निचुम्पुणेत्यपि निगमो भवति। निचुम्पुण निचुङ्कुणेति च। (निरु॰५.१८)। निचुम्पुण इति पदनामसु पठितम्। (निघं॰४.२) अनेन प्राप्तज्ञानो मनुष्यो गृह्यते। (निचेरुः) यो नितरां चिनोति सः। अत्र निपूर्वकाच्चिञ् धातोर्बाहुलकादौणादिको रुः प्रत्ययः। (असि) भव, अत्र लोडर्थे लट्। (निचुम्पुणः) उक्तार्थः (अव) विनिग्रहार्थे (देवैः) द्योतनात्मकैर्मनआदीन्द्रियैः (देवकृतम्) यद्देवैरिन्द्रयैः कृतं तत् (एनः) पापम् (अयासिषम्) करोमि, अत्र लडर्थे लुङ्। (अव) नीचगत्यर्थे (मर्त्यैः) मरणधर्मैः शरीरैः (मर्त्यकृतम्) अनित्यदेहेन निष्पादितम् (पुरुराव्णः) यः पुरूणि बहूनि दुःखानि राति ददाति स पुरुरावा तस्मात्। अत्र आतो मनिन्क्वनिब्वनिपश्च [अष्टा॰३.२.७४] इति वनिप् प्रत्ययः। (देव) जगदीश्वर! (रिषः) हिंसकाच्छत्रोः पापाच्च (पाहि) रक्ष॥४८॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैः पापनिवृत्तये धर्मप्रवृत्तये परमेश्वरो नित्यं प्रार्थ्य यानि मनोवचःकर्मभिः पापानि सन्ति तेभ्यो दूरे स्थातव्यम्। यत्किंचिदज्ञानात् पापमनुष्ठितं तद् दुःखफलं विज्ञाय द्वितीयवारं न समाचरणीयम्, किन्तु सर्वदा पवित्रकर्मानुष्ठानमेव वर्धनीयम्॥४८॥
Subject
अथ यज्ञानुष्ठातृकृत्यमुपदिश्यते॥
Anvaya
हे अवभृथ निचुम्पुण यथाहं निचुम्पुणो निचेरुः सन्देवैरिन्द्रियैर्देवकृतं मर्त्यैर्मर्त्यकृतमेनोऽवायासिषं दूरतस्त्यजामि तथा त्वमप्यसि भवावयाहि दूरतस्त्यज। हे देव! जगदीश्वरास्मान् पुरुराव्णो रिषो हिंसालक्षणात् पापात् पाहि दूरे रक्ष॥४८॥