Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 3 / Mantra 46

63 Mantra
3/46
Devata- इन्द्रमारुतौदेवते Rishi- आगस्त्य ऋषिः Chhand- भूरिक् पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
मो षू ण॑ऽइ॒न्द्रात्र॑ पृ॒त्सु दे॒वैरस्ति॒ हि ष्मा॑ ते शुष्मिन्नव॒याः। म॒हश्चि॒द्यस्य॑ मी॒ढुषो॑ य॒व्या ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः॥४६॥

मोऽइति॒ मो। सु। नः॒। इ॒न्द्र॒। अत्र॑। पृ॒त्स्विति॑ पृ॒त्ऽसु। दे॒वैः। अस्ति॑। हि। स्म॒। ते॒। शु॒ष्मि॒न्। अ॒व॒या इत्य॑व॒ऽयाः। म॒हः। चि॒त्। यस्य॑। मी॒ढुषः॑। य॒व्या। ह॒विष्म॑तः। म॒रुतः॑। वन्द॑ते। गीः ॥४६॥

Mantra without Swara
मो षू ण इन्द्रात्र पृत्सु देवैरस्ति हि ष्मा ते शुष्मिन्नवयाः । महश्चिद्यस्य मीढुषो यव्या हविष्मतो मरुतो वन्दते गीः ॥

मोऽइति मो। सु। नः। इन्द्र। अत्र। पृत्स्विति पृत्ऽसु। देवैः। अस्ति। हि। स्म। ते। शुष्मिन्। अवया इत्यवऽयाः। महः। चित्। यस्य। मीढुषः। यव्या। हविष्मतः। मरुतः। वन्दते। गीः॥४६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(मो) निषेधार्थे (सु) शोभनार्थे निपातस्य च [अष्टा॰६.३.१३६] इति दीर्घः। (नः) अस्मान् (इन्द्र) जगदीश्वर सुवीर वा (अत्र) अस्मिन् संसारे (पृत्सु) संग्रामेषु। पृत्स्विति संग्रामनामसु पठितम्। (निघं॰२.१७) (देवैः) विद्वद्भिः शूरैः (अस्ति) (हि) खलु (स्म) वर्तमाने। निपातस्य च [अष्टा॰६.३.१३६] इति दीर्घः। (ते) तव (शुष्मिन्) अनन्तबलवन् पूर्णबलवन् वा। शुष्ममिति बलनामसु पठितम्। (निघं॰२.९) (अवयाः) अवयजते विनिगृह्णाति (महः) महत्तरम् (चित्) उपमार्थे (यस्य) वक्ष्यमाणस्य (मीढुषः) विद्यादिसद्गुणसेचकान् (यव्या) यवेषु साधूनि हवींषि यव्यानि। अत्र शेश्छन्दसि [अष्टा॰६.१.७०] इति शेर्लोपः। (हविष्मतः) प्रशस्तानि हवींषि विद्यन्ते येषु तान् (मरुतः) ऋत्विजः (वन्दते) स्तौति तद्गुणान् प्रकाशयति (गीः) वाणी। गीरिति वाङ्नामसु पठितम्। (निघं॰१.११)। अयं मन्त्रः (शत॰२.५.२.२६-२८) व्याख्यातः॥४६॥
Essence
अत्रोपमालङ्कारः। यदा मनुष्याः परमेश्वरमाराध्य सम्यक् सामग्रीः कृत्वा युद्धेषु शत्रून् विजित्य चक्रवर्तिराज्यं प्राप्य सम्पाल्य महान्तमानन्दं सेवन्ते तदा सुराज्यं जायत इति॥४६॥
Subject
ईश्वरशूरवीरसहायेन युद्धे विजयो भवतीत्युपदिश्यते॥
Anvaya
हे इन्द्र शूरवीरेश्वर! कृपया त्वमत्र पृत्सु देवैर्विद्वद्भिः सहितान् नोऽस्मान् सु रक्ष मो हिन्धि। हे शुष्मिन्! स्म ते तव महो गीर्ह्येतान् मीढुषो हविष्मतो मरुतो वन्दते चिदेते त्वां सततं वन्दन्तेऽभिवाद्यानदयन्तीव, योऽवया यजमानोऽस्ति, स त्वदाज्ञया यानि यव्या यव्यानि हवींष्यग्नौ जुहोति तानि सर्वान् प्राणिनः सुखयन्तीति॥४६॥