Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 3 / Mantra 43

63 Mantra
3/43
Devata- वास्तुपतिर्देवता Rishi- शंयुर्बार्हस्पत्य ऋषिः Chhand- भूरिक् जगती, Swara- निषादः
Mantra with Swara
उप॑हूताऽइ॒ह गाव॒ऽउप॑हूताऽअजा॒वयः॑। अथो॒ऽअन्न॑स्य की॒लाल॒ऽउप॑हूतो गृ॒हेषु॑ नः। क्षेमा॑य वः॒ शान्त्यै॒ प्रप॑द्ये शि॒वꣳ श॒ग्मꣳ शं॒योः शं॒योः॥४३॥

उप॑हूता॒ इत्युप॑ऽहूताः। इ॒ह। गावः॑। उप॑हूता॒ इत्युप॑ऽहूताः। अ॒जा॒वयः॑। अथो॒ऽइत्यथो॑। अन्न॑स्य। की॒लालः॑। उप॑हूत॒ इत्युप॑ऽहूतः। गृ॒हेषु॑। नः॒। क्षेमा॑य। वः॒। शान्त्यै॑। प्र॒। प॒द्ये॒। शि॒वम्। श॒ग्मम्। शं॒योरिति॑ श॒म्ऽयोः॑। शं॒योरिति॑ श॒म्ऽयोः॑ ॥४३॥

Mantra without Swara
उपहूता इह गाव उपहूता अजावयः । अथो अन्नस्य कीलाल उपहूतो गृहेषु नः । क्षेमाय वः शान्त्यै प्र पद्ये शिवँ शग्मँ शम्योः शम्योः ॥

उपहूता इत्युपऽहूताः। इह। गावः। उपहूता इत्युपऽहूताः। अजावयः। अथोऽइत्यथो। अन्नस्य। कीलालः। उपहूत इत्युपऽहूतः। गृहेषु। नः। क्षेमाय। वः। शान्त्यै। प्र। पद्ये। शिवम्। शग्मम्। शंयोरिति शम्ऽयोः। शंयोरिति शम्ऽयोः॥४३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(उपहूताः) सामीप्यं प्रापिताः (इह) अस्मिन् गृहाश्रमे संसारे वा (गावः) दुग्धप्रदा धेनवः (उपहूताः) सामीप्यं प्रापिताः (अजावयः) अजाश्चावयश्च ते (अथो) आनन्तर्ये (अन्नस्य) प्राणधारणस्य निरन्तरसुखस्य च हेतुः। कृवृ॰ (उणा॰३.१०) इत्यनधातोर्नः प्रत्ययः। धापॄवस्यज्य॰ (उणा॰३.६) इत्यतधातोर्नः प्रत्ययः। (कीलालः) उत्तमान्नादिपदार्थसमूहः। कीलालं इत्यन्ननामसु पठितम्। (निघं॰२.७) (उपहूतः) सम्यक् प्रापितः (गृहेषु) निवसनीयेषु प्रासादेषु (नः) अस्माकम् (क्षेमाय) रक्षणाय (वः) युष्माकम् (शान्त्यै) सुखाय (प्रपद्ये) प्राप्नोमि (शिवम्) कल्याणम् (शग्मम्) सुखम् (शंयोः) कल्याणवतः साधनात् कर्मणः सुखवतो वा (शंयोः) सुखात्। अत्रोभयत्र कंशंभ्यां बभयुस्तितुतयसः (अष्टा॰५.२.१३८) इति शमो युस् प्रत्ययः। शिवं शग्मं चेति सुखनामसु पठितम्। (निघं॰३.६.)॥४३॥
Essence
गृहस्थैरीश्वरोपासनाज्ञापालनाभ्यां गोहस्त्यश्वादीन् पशून् भक्ष्यभोज्यलेह्यचूष्यान् पदार्थांश्चोपसञ्चित्य स्वेषामन्येषां च रक्षणं कृत्वा विज्ञानधर्मपुरुषार्थैरैहिकपारमार्थिके सुखे संसेधनीये, नैव केनचिदालस्ये स्थातव्यम्। किन्तु ये मनुष्याः पुरुषार्थवन्तो भूत्वा धर्मेण चक्रवर्त्तिराज्यादीनुपार्ज्य संरक्ष्योन्नीय सुखानि प्राप्नुवन्ति, ते श्रेष्ठा गण्यन्ते नेतरे॥४३॥
Subject
पुनः स कीदृशः संपादनीय इत्युपदिश्यते॥
Anvaya
इहास्मिन् संसारे वो युष्माकं शान्त्यै नोऽस्माकं क्षेमाय गृहेषु गाव उपहूता अजावय उपहूता अथोऽन्नस्य कीलाल उपहूतोस्त्वेवं कुर्वन्नहं गृहस्थः शंयोः शिवं शग्मं च प्रपद्ये॥४३॥