Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 3 / Mantra 42

63 Mantra
3/42
Devata- वास्तुपतिरग्निर्देवता Rishi- शंयुर्ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
येषा॑म॒द्ध्येति॑ प्र॒वस॒न् येषु॑ सौमन॒सो ब॒हुः। गृ॒हानुप॑ह्वयामहे॒ ते नो॑ जानन्तु जान॒तः॥४२॥गृ॒हानुप॑ह्वयामहे॒ ते नो॑ जानन्तु जान॒तः॥४२॥

येषा॑म्। अ॒ध्येतीत्य॑धि॒ऽएति॑। प्र॒वस॒न्निति॑ प्र॒ऽवस॑न्। येषु॑। सौ॒म॒न॒सः। ब॒हुः। गृ॒हान्। उप॑। ह्व॒या॒म॒हे॒। ते। नः॒। जा॒न॒न्तु॒। जा॒न॒तः ॥४२॥

Mantra without Swara
येषामध्येति प्रवसन्येषु सौमनसो बहुः । गृहानुप ह्वयामहे ते नो जानन्तु जानतः ॥

येषाम्। अध्येतीत्यधिऽएति। प्रवसन्निति प्रऽवसन्। येषु। सौमनसः। बहुः। गृहान्। उप। ह्वयामहे। ते। नः। जानन्तु। जानतः॥४२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(येषाम्) गृहस्थानाम्। अत्र अधीगर्थदयेशां कर्मणि (अष्टा॰२.३.५२) इति कर्मणि षष्ठी। (अध्येति) स्मरति (प्रवसन्) प्रवासं कुर्वन् (येषु) गृहस्थेषु (सौमनसः) शोभनं मनः सुमनस्तस्यायमानन्दः सुहृद्भावः, अत्र तस्येदम् [अष्टा॰४.३.१२०] इत्यण्। (बहुः) अधिकः (गृहान्) गृहस्थान् (उप) सामीप्ये (ह्वयामहे) शब्दयामहे (ते) गृहस्थाः (नः) अस्मान् प्रवसतोऽतिथीन् (जानन्तु) विदन्नु (जानतः) धार्मिकान् विदुषः॥४२॥
Essence
गृहस्थैः सर्वैर्धार्मिकैर्विद्वद्भिरतिथिभिः सह गृहस्थैः सहातिथिभिश्चात्यन्तः सुहृद्भावो रक्षणीयो नैव दुष्टैः सह, तेषां सङ्गे परस्परं संलापं कृत्वा विद्योन्नतिः कार्या। ये परोपकारिणो विद्वांसोऽतिथयः सन्ति, तेषां गृहस्थैर्नित्यं सेवा कार्या नेतरेषामिति॥४२॥
Subject
पुनस्ते गृहाश्रमिणः कीदृशाः सन्तीत्युपदिश्यते॥
Anvaya
प्रवसन्नतिथिर्येषामध्येति येषु बहुः सौमनसोऽस्ति। तान् गृहस्थान् वयमतिथय उपह्वयामहे। ये सुहृदो गृहस्थास्ते जानतो नोऽस्मानतिथीन् जानन्तु॥४२॥