Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 3 / Mantra 38

63 Mantra
3/38
Devata- अग्निर्देवता Rishi- आसुरिर्ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
आग॑न्म वि॒श्ववे॑दसम॒स्मभ्यं॑ वसु॒वित्त॑मम्। अग्ने॑ सम्राड॒भि द्यु॒म्नम॒भि सह॒ऽआय॑च्छस्व॥३८॥

आ। अ॒ग॒न्म॒। वि॒श्ववे॑दस॒मिति॑ वि॒श्वऽवे॑दसम्। अ॒स्मभ्य॑म्। व॒सु॒वित्त॑म॒मिति॑ वसु॒वित्ऽत॑मम्। अग्ने॑। स॒म्रा॒डिति॑ सम्ऽराट्। अ॒भि। द्यु॒म्नम्। अ॒भि। सहः॑। आ। य॒च्छ॒स्व॒ ॥३८॥

Mantra without Swara
आगन्म विश्ववेदसमस्मभ्यँवसुवित्तमम् । अग्ने सम्राडभि द्युम्नमभि सह आ यच्छस्व ॥

आ। अगन्म। विश्ववेदसमिति विश्वऽवेदसम्। अस्मभ्यम्। वसुवित्तममिति वसुवित्ऽतमम्। अग्ने। सम्राडिति सम्ऽराट्। अभि। द्युम्नम्। अभि। सहः। आ। यच्छस्व॥३८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(आ) समन्तात् (आगन्म) प्राप्नुयाम। अत्र लिङर्थे लुङ् मन्त्रे घसह्वर॰ [अष्टा॰२.४.८०] इति च्लेर्लुक्। म्वोश्च (अष्टा॰८.२.६५) इति मकारस्य नकारः। (विश्ववेदसम्) यो विश्वं वेत्ति स विश्ववेदाः परमेश्वरः। विश्वं सर्वं सुखं वेदयति प्रापयति स भौतिकोऽग्निर्वा। अत्र विदिभुजिभ्यां विश्वे। (उणा॰४.२३८) अनेनासिः प्रत्ययः। (अस्मभ्यम्) उपासकेभ्यो यज्ञानुष्ठातृभ्यो वा (वसुवित्तमम्) वसून् पृथिव्यादिलोकान् वेत्ति सोऽतिशयितस्तम्। पृथिव्यादिलोकान् वेदयति सूर्यरूपेणाग्निरेतान् प्रकाश्य प्रापयति स वसुवित्। अतिशयेन वसुविदिति वसुवित्तमो वा तम् (अग्ने) विज्ञानस्वरूपेश्वर, विज्ञापको भौतिको वा (सम्राट्) यः सम्यग्राजते प्रकाशते सः (अभि) आभिमुख्ये (द्युम्नम्) प्रकाशकारकमुत्तमं यशः। द्युम्नं द्योततेर्यशो वान्नं वा। (निरु॰५.५) (अभि) आभिमुख्ये (सहः) उत्तमं बलम्। सह इति बलनामसु पठितम्। (निघं॰२.९) (आ) समन्तात् (यच्छस्व) विस्तारय विस्तारयति वा। अत्र पक्षे लडर्थे लोट्। आङो यमहनः (अष्टा॰१.३.२८) अनेनात्मनेपदम्। आङ्पूर्वको ‘यम’ धातुर्विस्तारार्थे। अयं मन्त्रः (शत॰२.४.१.७-८) व्याख्यातः॥३८॥
Essence
अत्र श्लेषालङ्कारः। मनुष्यैः परमेश्वरभौतिकाग्न्योर्गुणविज्ञानेन तदनुसारानुष्ठानेन सर्वतः कीर्तिबले नित्यं विस्तारणीय इति॥३८॥
Subject
अथाग्निशब्देनेश्वरभौतिकावर्थावुपदिश्येते॥
Anvaya
हे सम्राडग्ने जगदीश्वर! त्वं अस्मभ्यं द्युम्नं सहश्चाभ्यायच्छस्व विस्तारय। एतदर्थं वयं वसुवित्तमं विश्ववेदसं त्वामभ्यागन्म प्राप्नुयामेत्येकः॥१॥३८॥ यः सम्राडग्नेऽयमग्निरस्मभ्यं सहश्चाभ्यायच्छति सर्वतो विस्तारयति, तं वसुवित्तमं विश्ववेदसमग्निं वयमभ्यागन्म प्राप्नुयामेति द्वितीयः॥२॥३८॥