Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 3 / Mantra 35

63 Mantra
3/35
Devata- सविता देवता Rishi- विश्वामित्र ऋषिः Chhand- निचृत् गायत्री, Swara- षड्जः
Mantra with Swara
तत् स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि। धियो॒ यो नः॑ प्रचो॒दया॑त्॥३५॥

तत्। स॒वि॒तुः। वरे॑ण्यम्। भर्गः॑। दे॒वस्य॑। धी॒म॒हि॒। धि॒यः॑। यः। नः॒। प्र॒। चो॒द॒या॒त् ॥३५॥

Mantra without Swara
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयत् ॥

तत्। सवितुः। वरेण्यम्। भर्गः। देवस्य। धीमहि। धियः। यः। नः। प्र। चोदयात्॥३५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(तत्) वक्ष्यमाणम् (सवितुः) सर्वस्य जगतः प्रसवितुः। सविता वै देवानां प्रसविता तथो हास्माऽ एते सवितृप्रसूता एव सर्वे कामाः समृध्यन्ते (शत॰२.३.४.३९) (वरेण्यम्) अतिश्रेष्ठम्। अत्र वृञ एण्यः (उणा॰३.९८) अनेन वृञ्धातोरेण्यप्रत्ययः। (भर्गः) भृज्जन्ति पापानि दुःखमूलानि येन तत्। अञ्च्यञ्जियुजि॰ (उणा॰४.२१६) इति भ्रस्जधातोरसुन् प्रत्ययः कवर्गादेशश्च। (देवस्य) प्रकाशमयस्य शुद्धस्य सर्वसुखप्रदातुः परमेश्वरस्य (धीमहि) दधीमहि। अत्र डुधाञ् धातोः प्रार्थनायां लिङ् छन्दस्युभयथा [अष्टा॰३.४.११७] इत्यार्धधातुकत्वाच्छब् न, आतो लोप इटि च [अष्टा॰६.४.६४] इत्याकारलोपश्च। (धियः) प्रज्ञा बुद्धीः। धीरिति प्रज्ञानामसु पठितम्। (निघं॰३.९) (यः) सविता देवः परमेश्वरः (नः) अस्माकम् (प्र) प्रकृष्टार्थे (चोदयात्) प्रेरयेत्। अयं मन्त्रः (शत॰२.३.४.३९) व्याख्यातः॥३५॥
Essence
मनुष्यैः सकलजगदुत्पादकस्य सर्वोत्कृष्टस्य सकलदोषनाशकस्य शुद्धस्य परमेश्वरस्यैवोपासना नित्यं कार्या। कस्मै प्रयोजनायेत्यत्राह स स्तुतो धारितः प्रार्थित उपासितः सन्नस्मान् सर्वेभ्यो दुष्टगुणकर्मस्वभावेभ्यः पृथक्कृत्य सर्वेषु गुणकर्मस्वभावेषु नित्यं प्रवर्तयेदित्यस्मै। अयमेव प्रार्थनाया मुख्यः सिद्धान्तः। यादृशीं प्रार्थनां कुर्यात् तादृशमेव कर्माचरेदिति॥३५॥
Subject
तस्य जगदीश्वरस्य कीदृश्यः स्तुतिप्रार्थनोपासनाः कार्या इत्युपदिश्यते॥
Anvaya
वयं सवितुर्देवस्य परमेश्वरस्य यद्वरेण्यं भर्गः स्वरूपमस्ति तद्धीमहि। यः सविता देवोऽन्तर्यामी परमेश्वरः स नोऽस्माकं धियः प्रचोदयात् प्रेरयेत्॥३५॥